________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४ तिहेयस्याधाकर्मादेः गोमांसादिनैवोपमानोपमेयदर्शनादिति युक्तमुक्तं 'विडिशपिशितवद्'बिम्बमादय॑जैन'मिति । साम्प्रतं प्रकृतमुपक्रम्यते-तथा 'तन्नाम्ना' जिननामधेयेनभगवद्भाण्डागारनिमित्तमेते निर्माप्यन्ते, नास्मन्निमित्तमिति व्यपदेशेन 'रम्यरूपान्' रुचिररचनया दृष्टबन्धनया च मनोहराकारान् 'अपवरका' अन्तर्गृहा 'मठा' निलयविशेषास्ततो द्वन्द्वस्तान् 'स्वेष्टसिद्ध्यै' वयमेवाजन्मसुखेन वत्स्याम इत्यात्माभिमतनिष्पतये 'विधाप्य' कारयित्वा, ते हि शठाः स्त्रनिमित्तमपवरकादीन् निष्पादयन्ति मुग्धाश्च जानते-जिननिमित्तमित्यहो !! एतेषां जिनभक्तिरिति, तेषु ते रज्यन्ते तश्वोपजीव्यन्त इति वञ्चनप्रकारः। तथा 'यात्रा' पित्राद्युद्देशेन भवद्भिरत्राष्टाहिका कर्तव्या, अमुष्मिन्त्रा मासादावमुना श्राद्धेन श्रीमत्यत्र देवगृहे यात्राः कृतास्तस्माद्भवद्भिरपि तथैव विधेया । तथा 'स्नानं' श्राद्धपक्षादिषु पित्रादेः श्रेयसे युष्माभिरत्र स्नात्रं कर्त्तव्यमित्युपदेशव्याजेन यात्रास्नात्रविधापन, ततो द्वन्द्वः। आदिशब्दाच्छुतानुक्तपर्वग्रहः । तदादय 'उपाया' मुग्धविप्रलम्भन प्रकारास्तैः । ननु कथमेवंविधयात्रादीनां मुग्धजनप्रतारकत्वं ? यावता यथातथा भगवत्पूजायाः कुशलानुबन्धहेतुत्वादिति चेन्न, एवं हि लोकोदाहरणप्रामाण्येन भगवत्पूजाविधाने भगवतोऽग्रामाण्यो(प)पादनेन मिथ्यात्वादिप्रसङ्गात्, यदुक्तं"जिट्टम्मि विजमाणे, उचिए अणुजिट्टपूअणमजुत्तं । लोगाहरणं(च) व तहा, पयडे भगवंतवयणम्मि ॥ १ ॥ लोगो गुरुतरगो खलु, एवं सह भगवओवि इट्ठोति । मिच्छतमो य एवं एसा आसायणा परमा ॥२॥" तथा 'नमसितकं उपयाचितक-भवता. मिदानीमीगुपद्रवः समुद्यस्थितः तस्माद्भवद्भिस्तनिवृत्तये जिनगोत्रदेवताऽम्बिकादिशासनसुराणामियद्रव्यमेषणीयमिति गृहिणः प्रतिजिनााद्देशेन वित्तव्ययविधापनमिति यावत् 'निशाजागर' उपसर्गवर्गोपशमनाय प्रवचनदेवतादीनां पुरतो बल्यादिस्थापनगीत-वाद्यलास्यपुरस्सरं सकलरात्रिजागरणं । ततो द्वन्द्वः । आदिग्रहणादन्येषामपि शान्तिकपौष्टिकानां सङ्गहः । तदादीनि 'छलानि' छमानि-लोकोपजीवनार्थमागमानभिहितत्वेन विलोभननिमित्तानीति यावत् , तैः करणभूतैः, चशब्द उक्तवचनप्रकार समुच्चये । श्रद्धालु-विवेकविकलधर्मेच्छावान् , विवेकिनो हि प्रायेण नैवंविधैः प्रतारणितुं पार्यन्ते । 'नामतः' संज्ञामात्रेण जैनै-र्जिनदेवतैर्न तु क्रियया, भ्रष्टाचारस्वात्तेषां, तेन लिङ्गिभिरित्यर्थः । 'शठः' प्रपञ्चप्रपश्चनचतुरैः, छलित इवेत्युपमान, यथा 'छलितः' शाकिन्यादिभिर्वशीकृतः तथाविधचैतन्यराहित्यात्सुखेन वश्चयितुं शक्यते, तथाऽयं-एष ' जनः' श्राद्धलोको हा !!! इति विषादे ‘वश्यते' विप्रलभ्यते, महानयम् अस्मञ्चेतसि विषादो-यद्धर्मार्थी लोको धृत्तः स्वार्थ वञ्चयित्वा दुर्गती पात्यत इति वृत्तार्थः ॥२१॥
For Private And Personal Use Only