Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 94
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७७ अपाथक्यापादनाद् व्रतं तेषां नास्ति । अत्र चासकृत्कशब्दोपादानेन लोके लोकोत्तरे च तत्तपःप्रभृतेः तपस्त्वादिकं न सम्भवतीति ज्ञाप्यते, तेनायमाशय:-यदा किल गृहिणोऽपि सततं गृहारम्भसंस्म्भवत्वात्प्रमादमरनिर्भरा अप्यनवगततच्या अपि कदाचित्प्रत्याख्यानभङ्गेनैवमनुतप्यन्ते, तदा सुतरां यतीनां सर्वसावद्ययोगविरतानां विदितागमसाराणां कथचित् विरतिभङ्गे पश्चात्तापः प्रायश्चित्तग्रहश्च युक्तः, ये तु निश्शूकतया तां भञ्जन्तो मनाग्लजामपि नादधति तेषां नास्त्येव तपःप्रभृतीति वृत्तार्थः ॥ २३ ॥ इदानीं तेषां लोकोपहासपुरस्सरं जिनपथपरिपन्थित्वं वृत्तद्वयेन प्रकटयन्नाह देवार्थव्ययतो यथारुचिकृते सर्व रम्ये मठे ॥ २४ ॥ इयाद्युद्धतसोपहासवचसः स्युः प्रेक्ष्य लोकाः स्थितिम् ॥ २५ ॥ व्याख्या-येषां स्थिति प्रेक्ष्य लोकाः सोपहासवचसः स्युरिति सम्बन्धः । कथमित्याह-अहो इति विस्मये, सितपटा:-श्वेताम्बराः 'कष्टं दुष्करं 'चरन्ति' अनुतिष्ठन्ति 'व्रत' प्रव्रज्यां, महदाश्चर्यमेतत्-यत्-सितपटाः कलावप्येवंविधं व्रत कष्टमनुभवन्ति, नहि सम्प्रतितनैर्मानवैरल्पसवरेवंविधं कष्टं कत्तुं शक्यते, अथ च सवैरप्येवंरूपं व्रतं कर्नु पार्यत एव, सुखहेतुत्वादित्युपहासः। अथ कथमेवमुपहासः तेषां तैः क्रियत ? इत्यत आह'साधुव्याजेन' यतिछाना विटाः, नामी साधवः तल्लक्षणायोगात् , किन्तु तव्याजेन विटाः, सकलतल्लक्षणोपपत्तेः। तदेवाह-'देवार्थव्ययतो' देवगृहाधिपत्ये न तद्रविणस्य तदधीनत्वात् जिनवित्तविनियोगेन 'यथारुचि' स्वमनोऽभिलाषानुरूपमित्यर्थः। ‘कृते' निष्पादिते 'सर्व रम्ये' सकलवसन्तादिरूपता विभक्तकालविशेषमनोहरे मढे प्रतीते, तत्र 'नित्यस्थाः' सततवासिनः, सुविहिता हि देवद्रव्योपभोगभयात् यतिनिमित्तनिर्मितत्वेन महासावद्यत्वाच्च मढे न वसन्ति, किन्तु याचिते यादृशि-तादृशि परगृहादावेव, तत्रापि ना[न]वरतं वसन्ति, नित्यवासस्य च यतीनां श्राद्धादिप्रतिबन्धलाघवादिहेतुत्वेन प्रतिषेधात् , उद्यतविहारस्यैव ममकाराधुच्छेदनिमित्तत्वेनाभिधानात् । एते तु सातलम्पटतया मठे नित्यकृतस्थितयो विलसन्तीति कथं न भवन्ति विटाः । तथा 'शुचयो' निर्मलाः 'पट्टतूल्य:' पट्टांशुकसंवीता हंसरूतादि मयाः शय्याविशेषाः, यद्वा 'पट्टाः' श्रीपर्णादि दारुनिर्मिताः ताः 'शयनं' शयनीयं येषां ते तथा, साधवो हि कम्बलादिसंस्तारक एव शेरते, न पट्टतूल्यादिषु, तासां प्रमार्जनाद्यशुद्धे विभूषासातशीलत्वव्यञ्जकत्वाल्लोकोपहासहेतुत्वाच्च, एते तु तत्र शयाना विटत्वं प्रकटयन्ति । तथा 'सद्गब्दिकाद्यासता' शोमनगब्दिकाद्यासनाः-शोमनगब्दिकामसूरकादि विष्टरभाजः, गब्दिकाद्युप For Private And Personal Use Only

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132