Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 88
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रख्याप्यते येन सा तथा प्रख्याप्यमाना कस्यापि पुण्यात्मनः स्वतो निवर्तनाय प्रभवतीति घृतार्थः ॥ १९॥ इदानीं निर्वाणकारणमपि निसर्गेण जिनगृहादि निर्मापणं गृहिणः कुमतादि निर्देलेशस्याप्यनुबन्धात् भवहेतवे भवतीत्येतत् प्रदर्शनायाह जिनगृह-जिनबिम्ब-जिनपूजन जिनयात्रा-दि विधिकृतं ॥ २० ॥ व्याख्या-'जिनगृहं' जिनभवन 'जैनबिम्बं ' भागवती प्रतिमा 'जिनपूजनं' भगवत्प्रतिमायाः कुसुमादिभिः अभ्यर्चनं जिनयात्रा' जिनान् प्रतीत्या-टाह्निकाकल्याणक-रथनिष्क्रणादि महामहकरणं, ततो जिनगृहं चेत्यादिद्वन्द्वगर्भो बहुव्रीहिः, एवमुत्तरपदयोरपि । आदिग्रहणात् जिनकन्दनप्रतिष्ठादिग्रहः । इह चासकजिनपदोपादानं भगवतोऽत्यन्तभक्तिगोचरतया तदुद्देशेन विधिना जिनगृहनिर्माणस्य परममुक्त्यङ्गत्व. ख्यापनार्थ, एवमादि धर्मकर्मजातमिति शेषः । ' विधिना' श्रुतोक्तेन प्रकारेण कृतं' निर्मापितं । तथाहि-जिनगृहनिर्मापणविधिः शुद्धभूमिपरिग्रहादिकः, जिनविम्बे विधिना निर्मापिते प्रतिष्ठापिते चायं पूजन विधिः-सन्ध्या त्रये विधिना शुचिभूत्वा भगवत् बिम्ब श्रद्धावान् पुष्पादिभिरर्चयति, तथा तत्र च कल्याणकादिदिनेषु यात्रा प्रस्तूयते, तत्र चायं विधिः-यथाशक्ति दान-तपश्चरण-शरीरविभूषा-जिनगुणगान-वादित्रादिकरणं । तथा 'दान'अभयदानादि 'तपो'ऽनशनादि 'व्रतानि' स्थूलप्राणातिपातविरमणादीनि । आदिशब्दात्-विचित्राभिग्रहः । ततो घनं चेत्यादि द्वन्द्वः । तथा 'गुरोः 'धर्माचार्यस्य 'भक्तिः' शश्रूषा आगच्छदभिमुखगमनोत्थिताऽभ्युत्थान-गच्छदनुगमन-विश्रामणाविशुद्धभक्तपानादि दानचित्तानुरंजनादिकाः। 'श्रुतपठनं सिद्धान्ताध्ययनं आदिग्रहाणत् तदर्थश्रवणमननादिग्रहः । एतच्च विवेकिना विशेषेण विधेयं, एतत्पुरस्सरत्वात्सकलप्रागुक्त. जिनगृहादिकरणविधिप्रतिपत्तेः । यदाह-"अन्नेसि पवित्तीए, निबंधणं होइ विहिसमारंभो। सो सुत्ताउ नजइ, तो तं पढम पढेयत्वं ॥१॥ सुत्ता अत्थे जत्तो, अहिगयरो नवरि होइ कायचो । इचो उभयविसुद्धत्ति, सुयगं केवलं सुत्तमिति ॥ २॥" एतदन्तरेण समस्तस्यापि क्रियाकलापस्यान्धमूक साम्यापत्तेः। ततो गुरुभक्तिश्चेत्यादि द्वन्द्वः, चः समुच्चये । आहतं सबहुमानं, न त्ववहेलया । एतत्सकलं जिनगृहादि-दानादि-गुरुभक्त्यायनुष्ठानं, किमित्याह-'स्याद्' भवेत् इह प्रवचने, अनभिमतकारीति सम्बन्ध । कस्मात् अत आहकुमतेत्यादि, तत्र 'कुमतं' परतिर्थिसमयाभिहित क्रियाकदम्बकं श्राद्धचन्द्रसूर्योपराग For Private And Personal Use Only

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132