________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रख्याप्यते येन सा तथा प्रख्याप्यमाना कस्यापि पुण्यात्मनः स्वतो निवर्तनाय प्रभवतीति घृतार्थः ॥ १९॥
इदानीं निर्वाणकारणमपि निसर्गेण जिनगृहादि निर्मापणं गृहिणः कुमतादि निर्देलेशस्याप्यनुबन्धात् भवहेतवे भवतीत्येतत् प्रदर्शनायाह
जिनगृह-जिनबिम्ब-जिनपूजन जिनयात्रा-दि विधिकृतं ॥ २० ॥
व्याख्या-'जिनगृहं' जिनभवन 'जैनबिम्बं ' भागवती प्रतिमा 'जिनपूजनं' भगवत्प्रतिमायाः कुसुमादिभिः अभ्यर्चनं जिनयात्रा' जिनान् प्रतीत्या-टाह्निकाकल्याणक-रथनिष्क्रणादि महामहकरणं, ततो जिनगृहं चेत्यादिद्वन्द्वगर्भो बहुव्रीहिः, एवमुत्तरपदयोरपि । आदिग्रहणात् जिनकन्दनप्रतिष्ठादिग्रहः । इह चासकजिनपदोपादानं भगवतोऽत्यन्तभक्तिगोचरतया तदुद्देशेन विधिना जिनगृहनिर्माणस्य परममुक्त्यङ्गत्व. ख्यापनार्थ, एवमादि धर्मकर्मजातमिति शेषः । ' विधिना' श्रुतोक्तेन प्रकारेण कृतं' निर्मापितं । तथाहि-जिनगृहनिर्मापणविधिः शुद्धभूमिपरिग्रहादिकः, जिनविम्बे विधिना निर्मापिते प्रतिष्ठापिते चायं पूजन विधिः-सन्ध्या त्रये विधिना शुचिभूत्वा भगवत् बिम्ब श्रद्धावान् पुष्पादिभिरर्चयति, तथा तत्र च कल्याणकादिदिनेषु यात्रा प्रस्तूयते, तत्र चायं विधिः-यथाशक्ति दान-तपश्चरण-शरीरविभूषा-जिनगुणगान-वादित्रादिकरणं । तथा 'दान'अभयदानादि 'तपो'ऽनशनादि 'व्रतानि' स्थूलप्राणातिपातविरमणादीनि । आदिशब्दात्-विचित्राभिग्रहः । ततो घनं चेत्यादि द्वन्द्वः । तथा 'गुरोः 'धर्माचार्यस्य 'भक्तिः' शश्रूषा आगच्छदभिमुखगमनोत्थिताऽभ्युत्थान-गच्छदनुगमन-विश्रामणाविशुद्धभक्तपानादि दानचित्तानुरंजनादिकाः। 'श्रुतपठनं सिद्धान्ताध्ययनं आदिग्रहाणत् तदर्थश्रवणमननादिग्रहः । एतच्च विवेकिना विशेषेण विधेयं, एतत्पुरस्सरत्वात्सकलप्रागुक्त. जिनगृहादिकरणविधिप्रतिपत्तेः । यदाह-"अन्नेसि पवित्तीए, निबंधणं होइ विहिसमारंभो। सो सुत्ताउ नजइ, तो तं पढम पढेयत्वं ॥१॥ सुत्ता अत्थे जत्तो, अहिगयरो नवरि होइ कायचो । इचो उभयविसुद्धत्ति, सुयगं केवलं सुत्तमिति ॥ २॥" एतदन्तरेण समस्तस्यापि क्रियाकलापस्यान्धमूक साम्यापत्तेः। ततो गुरुभक्तिश्चेत्यादि द्वन्द्वः, चः समुच्चये । आहतं सबहुमानं, न त्ववहेलया । एतत्सकलं जिनगृहादि-दानादि-गुरुभक्त्यायनुष्ठानं, किमित्याह-'स्याद्' भवेत् इह प्रवचने, अनभिमतकारीति सम्बन्ध । कस्मात् अत आहकुमतेत्यादि, तत्र 'कुमतं' परतिर्थिसमयाभिहित क्रियाकदम्बकं श्राद्धचन्द्रसूर्योपराग
For Private And Personal Use Only