________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मभिहितमागमे, न च निशि नन्दिविधानस्य ततोऽवगम्यते-नास्त्यपवादेनापि रजन्यां नन्दिविधान, एवं निशि जिनप्रतिमा प्रतिष्ठायामपि सकलमेतद् दूषणजातं विविच्य वाच्यं, तदुक्तं-" प्रादुषदोषपोषायां, दोषायां साधयन्ति ये । जिनबिम्बप्रतिष्ठां ते, प्रतिष्ठा स्वस्य दुर्गतौ ॥१॥" तदेवं दोषकलापदर्शनाद्रात्रौ मजनादि विधायिनां पापपङ्के निमजनं भवतीति व्यवस्थितं । इदं वक्ष्यमाणं च वृत्तद्वयं द्विपदीच्छन्द इति वृत्तार्थः ॥ १८ ॥
माम्प्रतं प्रसङ्गेन मन्जनात् अन्यस्यापि धर्मकृत्यस्य संसारनिमित्तत्वं प्रकटयमाह
जिनमतविमुस्खविहितमहिताय न मजनमेव केवलं ॥ १९ ॥
व्याख्या-'जिनमतविमुखविहितं ' भगवदागमवैपरीत्य-निर्मितं 'मजनमेव' स्नपनमेव केवलं 'एकं 'अहिताय' संसाराय न भवति-स्नानमेवैकं अविधिविहितं संसारकारणमिति नास्ति, किन्तु किं तर्हि ? तप्यते धातवोऽशुभकर्माणि चानेनेति तपो. ऽनशनादि, तथा 'चरित्रं ' सर्वविरतिः 'दान' पात्रेषु न्यायार्जितशुद्धभक्तादिवितरणं, आदिशब्दात् विनयवैय्यावृत्यादिग्रहः, ततस्तपश्चेत्यादि द्वन्द्वगर्भो बहुव्रीहिः। ततश्चैवमाधप्यनुष्ठानं जिनमतवैपरीत्य विहितं, न केवलं मञ्जनमित्यपि शब्दार्थः । न खलु' नैव 'जनयति' सम्पादयति 'शिवफलं' मुक्तिरूपं फलं । अथ कस्मादेवं ? इत्यत आह-'हि' यस्मात् 'अविधिविधिकमात्' सिद्धान्तानुक्त-तदुक्तप्रकारेण 'जिनाज्ञाऽपि ' भगवच्छासनोक्तानुष्ठानमपि ' अशुभशुभाय' अश्रेयः श्रेयसे, द्वन्द्वेकवद्भावादत्रैकवचनं । 'जायते' सम्पद्यते, यथासंखेयनात्र योजना, तेनायमर्थ:-किल जिनपूजा-तपःप्रभृतिप्रवचनप्रसिद्ध जिनाज्ञा, भगवता निःश्रेयससाधनत्वेनाज्ञापितत्वात् । तथा च तदप्यविधिक्रमेण-"काले सुइभूएणं" इत्याधुक्तविधिविपर्ययेण क्रियमाणमशुभाय भवति, विधिक्रमेण तु सन्ध्यात्र. या-राधनशुचिभूतत्वादिना तदेव शुभाय। विध्यविधिभ्यां भगवदाज्ञाऽऽराधना-नाराधनयोरेव मोक्षसंसारफलत्वात् । किं पुनरित्यादि वाक्यं काका योज्यं । अत्र च किमित्या. क्षेपे, पुनरिति वाक्यभेदे, इति प्रकरणे । तेनैषा प्रकृतारात्रिमजनादिका क्रिया 'विडम्बनैव' प्रवचनापभ्राजनैव-लोकोपहासास्पदं, न त्वेषा जिनाज्ञाऽपीत्येवकारार्थः । 'अहितहेतुः ' संसारनिबन्धनं न प्रतायते' न विस्तार्यते, किन्तु अवहितहेवुत्वेन प्रख्याप्यते एव, इदमुक्तं भवति-जिनाज्ञाऽपि तपःप्रभृतिका आपवादिका-धाकर्मभोजनादिका वा यदा अविधिना विधीयमाना भवफला तदा किं पुनरस्या विडम्बनाया:-सर्वथा जिन वचनवाडाया रात्रिमजनादिकाया वक्तव्यं ? सुतरामेषा भवहेतुरेव, अतोऽहितहेतुत्वेन
For Private And Personal Use Only