Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 83
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 अयमाशयः यथा सगुणं राजानं विना तद्देशः प्रतिभूप - मलिम्लुचादिभिः उपद्रूयते एवं सम्प्रति प्रौढसातिशय- बहुजनापेक्षणीय - गणधरादि पुरुषसिंहविरहाल्लिङ्गिभिरयं श्राद्धजनो वाह्यत इति वृत्तार्थः ॥ १६ ॥ अधुना लिङ्गिनां वैशसं दृष्ट्वाऽपि कदाग्रहात् तत्प्रथित-कापथात् अनिवर्त्तमानान्मूढान् दिङ्मूढत्वादिना विकल्पयन्नाह - कि दिमोह मिताः किमन्धवधिराः किं योगचूर्णीकृताः ॥ १७ ॥ व्याख्या - किं शब्दाः सर्वेऽपि विकल्पार्थाः, किममी जडादिङमोह :- कुतश्चिददृष्टादि निमित्तात् प्राच्यादि दिक्षु प्रतीच्यादिश्रमास्त मिताः प्राप्ताः । अयमर्थः - यथा दिङ्मूढाः प्राची प्रतीचीत्वेनाध्यवस्यन्तो लोकेन युक्तया ज्ञापिततच्चा अपि तदध्यवसायात् न निवर्त्तन्ते, एवमेतेऽपि विदितकुपथदोषा अपि कुतोऽपि हेतोरनिवर्त्तमानाः तत्साम्यातथोच्यन्ते । किमन्धा - नयनहीना 'बधिरा' उपहतश्रवणाः, अन्धाश्च बधिराश्चेति द्वन्द्वः, ते किमन्धाः किं बधिरा इत्यर्थः । यथा अन्धा दृग्विकलत्वात्सम्यक्पन्थानम् अजानाना अपथमपि सत्पथतयाऽवगम्य तत्र गच्छन्तो हितैषिणा तत्रं ज्ञाप्यमाना अपि स्वग्रहात् न निवर्त्तन्ते, यथा बधिराः श्रुतिविकलत्वादनाकर्णयन्तो दुष्ट्वैतालिकादि वचो निन्दार्थः स्तुत्यर्थतयाऽवगम्य तद्दानादौ प्रवर्त्तमानास्तथं बोधिता अपि स्वनिर्बन्धात् न निवर्त्तन्ते, एवमेतेऽपि सदोषमपि कुपथं स्वगच्छादिग्रहात् निर्दोषितयाऽवबुध्य ततोऽनिवर्त्तमानास्तथोच्यन्ते । एवमुत्तरपदेष्वपि भावनीयम् । तथा किं वशीकरणादिहेतुरनेकद्रव्य मेलकः पादप्रलेपादिर्योगः, तादृगेव नयनाञ्जनादिवर्ण, योगश्च चूर्णं च, ते विद्यते येषामिति विग्रहे तदस्यास्तीतीन् । अयोगचूर्णितः योगचूर्णीकृता, अभूततद्भावे चित्रः । मस्तकादिषु योगचूर्णक्षेपेण वशीकृता इत्यर्थः । यथा केनापि धूर्तेन क्षिप्तयोगचूर्णाः पुमांस आत्मनोऽहितैषिणमपि तं हितैषितया मन्यमाना केनापि तत्त्वं प्रत्याय्यमाना अपि योगादिप्रभावेण तद्वचनकरणात् न निवर्त्तन्ते, तथैतेऽपि कुपथादिति पूर्ववत् । किं ' दैवेन ' प्रतिकूलविधिनोपहताः - सदबुद्धिभ्रंशं प्रापिताः, तेहि विधिवशेन विपर्यस्तमतित्वात्अकृत्यमपि स्तेयादिकं कृत्यतया मन्वानस्तन्वं प्रतिपाद्यमाना अपि दुर्दैवमहिम्ना ततो न निवर्त्तन्ते, तथैतेऽपि । किं अङ्गेति- पार्श्ववमन्त्रणं, ठकिता - मन्त्रादिप्रयोगेण, स्वायतीकृता, यथाहि केचन केनापि दुरमान्त्रिकेण वशीकरणमन्त्रेण तथाकृताः तद्वचनमत्यन्तं समीचीनतयाऽभ्युपगच्छन्तः तत्रमवगमिता अपि मन्त्रमहिम्ना न ततो निवर्त्तन्ते, एवमेsपि । किश्चेति पक्षान्तरे । ' ग्रहैः 'भूतादिभिः 'अवेशिताः ' कृतावेशा - विहितशरीश For Private And Personal Use Only

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132