________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
44
अयमाशयः यथा सगुणं राजानं विना तद्देशः प्रतिभूप - मलिम्लुचादिभिः उपद्रूयते एवं सम्प्रति प्रौढसातिशय- बहुजनापेक्षणीय - गणधरादि पुरुषसिंहविरहाल्लिङ्गिभिरयं श्राद्धजनो वाह्यत इति वृत्तार्थः ॥ १६ ॥
अधुना लिङ्गिनां वैशसं दृष्ट्वाऽपि कदाग्रहात् तत्प्रथित-कापथात् अनिवर्त्तमानान्मूढान् दिङ्मूढत्वादिना विकल्पयन्नाह -
कि दिमोह मिताः किमन्धवधिराः किं योगचूर्णीकृताः ॥ १७ ॥
व्याख्या - किं शब्दाः सर्वेऽपि विकल्पार्थाः, किममी जडादिङमोह :- कुतश्चिददृष्टादि निमित्तात् प्राच्यादि दिक्षु प्रतीच्यादिश्रमास्त मिताः प्राप्ताः । अयमर्थः - यथा दिङ्मूढाः प्राची प्रतीचीत्वेनाध्यवस्यन्तो लोकेन युक्तया ज्ञापिततच्चा अपि तदध्यवसायात् न निवर्त्तन्ते, एवमेतेऽपि विदितकुपथदोषा अपि कुतोऽपि हेतोरनिवर्त्तमानाः तत्साम्यातथोच्यन्ते । किमन्धा - नयनहीना 'बधिरा' उपहतश्रवणाः, अन्धाश्च बधिराश्चेति द्वन्द्वः, ते किमन्धाः किं बधिरा इत्यर्थः । यथा अन्धा दृग्विकलत्वात्सम्यक्पन्थानम् अजानाना अपथमपि सत्पथतयाऽवगम्य तत्र गच्छन्तो हितैषिणा तत्रं ज्ञाप्यमाना अपि स्वग्रहात् न निवर्त्तन्ते, यथा बधिराः श्रुतिविकलत्वादनाकर्णयन्तो दुष्ट्वैतालिकादि वचो निन्दार्थः स्तुत्यर्थतयाऽवगम्य तद्दानादौ प्रवर्त्तमानास्तथं बोधिता अपि स्वनिर्बन्धात् न निवर्त्तन्ते, एवमेतेऽपि सदोषमपि कुपथं स्वगच्छादिग्रहात् निर्दोषितयाऽवबुध्य ततोऽनिवर्त्तमानास्तथोच्यन्ते । एवमुत्तरपदेष्वपि भावनीयम् । तथा किं वशीकरणादिहेतुरनेकद्रव्य मेलकः पादप्रलेपादिर्योगः, तादृगेव नयनाञ्जनादिवर्ण, योगश्च चूर्णं च, ते विद्यते येषामिति विग्रहे तदस्यास्तीतीन् । अयोगचूर्णितः योगचूर्णीकृता, अभूततद्भावे चित्रः । मस्तकादिषु योगचूर्णक्षेपेण वशीकृता इत्यर्थः । यथा केनापि धूर्तेन क्षिप्तयोगचूर्णाः पुमांस आत्मनोऽहितैषिणमपि तं हितैषितया मन्यमाना केनापि तत्त्वं प्रत्याय्यमाना अपि योगादिप्रभावेण तद्वचनकरणात् न निवर्त्तन्ते, तथैतेऽपि कुपथादिति पूर्ववत् । किं ' दैवेन ' प्रतिकूलविधिनोपहताः - सदबुद्धिभ्रंशं प्रापिताः, तेहि विधिवशेन विपर्यस्तमतित्वात्अकृत्यमपि स्तेयादिकं कृत्यतया मन्वानस्तन्वं प्रतिपाद्यमाना अपि दुर्दैवमहिम्ना ततो न निवर्त्तन्ते, तथैतेऽपि । किं अङ्गेति- पार्श्ववमन्त्रणं, ठकिता - मन्त्रादिप्रयोगेण, स्वायतीकृता, यथाहि केचन केनापि दुरमान्त्रिकेण वशीकरणमन्त्रेण तथाकृताः तद्वचनमत्यन्तं समीचीनतयाऽभ्युपगच्छन्तः तत्रमवगमिता अपि मन्त्रमहिम्ना न ततो निवर्त्तन्ते, एवमेsपि । किश्चेति पक्षान्तरे । ' ग्रहैः 'भूतादिभिः 'अवेशिताः ' कृतावेशा - विहितशरीश
For Private And Personal Use Only