________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वा । अथ माभूत् जातस्तथापि वर्द्धितो भविष्यति, एतावताऽपि बलात् तद्वाहन सिद्धिः अत आह-वड़ितो न चेति, एवमुत्तरपदेष्वप्याशङ्कय योजना कार्या, वर्द्धितो-योगक्षेमादिसम्पादनेन शरीर-पोषं प्रापितः। न च 'क्रीतो' मूल्यदानेनान्यस्माद् गृहीतः । अधमों न च, उत्तमर्णसकाशात् उद्धारादि प्रयोगेणार्थगृहीताऽधमणः। अत्र च यैरिति कर्तृतया सम्बन्धानुपपत्तेर्येषामिति सम्बन्धविवक्षया यच्छब्दो योज्या, अर्थवशाद्विभक्तिपरिणाम इति न्यायात् । तेन येषां लिङ्गिनामयं जनोऽधमोऽर्थधारयिता न भवति, एवमुत्तरत्रापि यथासम्भवं येषामिति सम्बन्धनीयं । तथा यैः 'प्राक' पूर्व दृष्टोऽवलोकितो न च, अयमर्थ:-ये लिङ्गिभिः स्वश्राद्धा दूरदेशवर्तित्वात् कदाचिदपि न दृष्टास्तेऽपि स्वगच्छग्रहग्रस्तत्वादन्यं गुरुं वाचाऽपि न सम्भाषन्ते, तमेव गच्छ गुरुं ध्यायन्तः कालमति. वाहयन्ति । 'बान्धवः ' पितृव्य-भ्रातृव्यादिसम्बन्धमाग् न च येषां न च 'प्रेयान् ' वल्लभतरो मैञ्यादिसम्बन्धेन, न च 'प्रीणितो' दानज्ञानातिशयादिना तोषितः, तेरेव प्रागुक्तसम्बन्धाभावेन लोकवाहनयोग्यताविकलैलिङ्गिभिरेव । “ एव इत्यव्ययमिह परिभवे ईषदर्थे वा" । ततश्च महापराभवोऽयं-यत् तारशैरपि लिङ्गिभिर्लोको वाह्यत इति 'बलात् ' हठेन, न तु प्रणयेन ‘वाह्यते ' वशीकृत्य स्त्र कार्याणि कार्यते ' अयं' गच्छमहाग्रहगृहीतः प्रत्यक्षोपलभ्यमानो जनः' श्राद्धलोको 'नस्योतो' नास्तिक इव 'पशुवत् ' वृषभादि इव लिङ्गिभिस्तूक्तसम्बन्धं विनाऽपि यदेवं लोको वाह्यते तन्महापरिभव इति, ननूक्तसम्बन्धं विनाऽपि सद्गुरुत्वेन तेषां नस्तितपशुवल्लोकाः कार्याणि निर्मापयिष्यन्ति, न घनुपकृत-परहितरतानां गुरूणां धर्मदानोपकारस्य प्रत्युपकारः कत्तुं शक्यते, अत आह-अत्यधमाधमैरिति, लोकलोकोत्तरगर्हिततम--साध्वीप्रतिसेवा. देवद्रव्यभक्षण-सुविहितघात-शासनोड्डाहप्रभृति-भूरिपापकर्मनिर्माणात् अतिशयेनाध. मेभ्योऽपि-हीनजातीयेभ्योऽप्यधहीनः, अतः कथमेषां सद्गुरुतया लोको वाहनीयो भविष्यति, अथैवंविधैः एमिः कथं तर्हि वाहयितुं लोकः पार्यते ? अत आह-' कृतमुनिव्याजैः' प्रपश्चचतुरतया विश्वासोत्पादनेन मुग्धजनस्य विप्रलिप्सया रचितशान्तरूपमासोपवासकरणादि छद्मभिः । अयमर्थः-एवमसमञ्जसकारिणोऽपि लिङ्गिनो विश्रम्भ. हेतु तथाविधयतिरूपप्रदर्शनेन सुकरपथप्ररूपणेन च सुखलुब्धान् मुग्धान् प्रलोभ्य यथेच्छं वाह्यन्तीति । अमुमेवार्थ समर्थयितुं प्रकारान्तरेण लोकवाहनप्रतीकारमसम्भावयन् सविषाद वैधय॑णार्थान्तरन्यासमाह-'नीराजक' विगतमहाज्ञेश्वर्य-न्यायरक्षित-प्रजादुष्ट. शिक्षाशिष्टरक्षा-विचक्षणभूपं । किं राजसहितमपि नीराजकमिव नीराजकमुच्यते ? हा इति विषादे, जग-द् भुवनं, न हन्यथोदिता गुणभाजि-राजनि बलाल्लोकवाहनं कर्तुं लभ्यते ।
For Private And Personal Use Only