________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कस्यचित् शिशुक इति, प्रव्रज्य-मुण्डीभृय 'चत्ये' लिङ्गिसम्बन्धिजिनगृहे, कचिदनिर्दिष्टनाम्नि 'कृत्वा विधाय लश्चादिना कञ्चन कमपि बद्धमूलं बलीयांसं यति श्रावक वा पक्षं सहायं, न तादृक्साहाय्यं विना तादृशाम्-आचार्यपदलामसम्भवः । 'अक्षतकलिः' यत्किञ्चिनिमित्तमात्रं प्राप्य शिक्षादिभिः सह नित्यमखण्डितकलहः 'प्राप्त आसादित[स्सन् ]वान् सन् (१) तदिति विवकिनां विडम्बनास्पदं 'आचार्यक' आचार्यत्वं-बरिपदमित्यर्थः । 'चित्रं' अद्भुतमेतत् 'चैत्यगृहे' देवभवने 'गृहीयति' गृहहवाचरति, यथा निजगृहे गृही शयना-सन-पान-सम्भोग-ताम्बूलभक्षणादिकं निश्शकं समाचरति, तथाऽयमपि । तथा 'निजे' स्वकीये गच्छे 'कुटुम्बीयति' कुटुम्बइवाचरति, यथाहि गृहस्थः कुटुम्बे पर्वदिनेषु दानानुप्रदानादिषु प्रवर्तते, एवं एषोऽपि साधुमाध्यादि वर्गे तथा प्रवर्तमान एवमुच्यते । यदि वा आचार्येण हि स्मारणवारणादिपूर्वकं प्रत्युपेक्षणप्रमार्जनशिष्याध्ययनाध्यापनादिनोत्तरोत्तरगुणस्थानाधिरोपणेन स्वगच्छो नित्यमेवेक्षणीयः यथा दोषं च शिक्षणीय इति सिद्धान्तस्थितिः । यथा गृही द्रव्यार्जनगृहकर्मादिकरणदक्षं पुत्रादिकं बहुमन्यते तदन्यं चावमन्यते तथा गच्छमध्याद्विश्रामणादि शुश्रूषाकारिणं सदोषमपि भूषयते तदन्यं च सद्गुणमपि दूषयति, इति गृहिकुटुम्बप्रक्रियावर्तित्वात् तथाअभिधीयत इति । तथा 'स्व' आत्मानं 'शक्रीयति' शक्रमिव-पुरन्दरमिवाचरति, सहि नीचत्वात् तथाविधचैत्यद्रव्य-शिष्यश्रावकादि-समृद्धिदर्शनात् उन्मदिष्णुः शक्रोऽहमित्यभिमन्यत इति । तथा कतिपयशास्त्रसिद्धान्तज्ञ तया 'बालिशीयति' बालिशानिव-मूर्खानिवाचरति 'बुधान्' विचक्षणान् , अहमेव सकलशास्त्रपारगामी, किममी अज्ञा विदन्तीति । तथा अतएव विश्वं 'वराकीयति' वराकमिव-रङ्कमिवाचरति । अयमा शयः-ईश्वरो हि कश्चित्प्रव्रज्य प्राप्ताचार्यपदः सन् निर्विवेकतया कथचित् चैत्यगृहादिषु गृहीयतीत्यादिकं विदधानोऽपि न तथा लोकानां चित्रीयते, गृहवासेऽपि लोकैस्तथा दर्शनात् , अयं तु रङ्कशिशुर्दीक्षित्वा रिपदासादनेन तथा कुर्वाणे जनानामुपहासविषयतया महदाश्चर्यभाजनं, तदहो! ! अत्यन्तमाचार्यादिअनुचितचैत्यगृहे गृही-यत्यदिना असञ्चेष्टितेन श्रुतपथावज्ञा पापानां मलिनयति प्रवचनमिति वृत्तार्थः ।। १५ ॥
सम्प्रति पुत्रपित्रादिसम्बन्धं विनाऽपि हठाल्लिङ्गिकृतलोकवाहनोपालम्भद्वारेण श्रुतावज्ञा प्रतिपादयन्नाह
यैर्जातो न च वर्द्धितो न च न च क्रीतोऽधमों न च ॥१६॥ गाख्या-यः लिङ्गिभिरयं जनो न च जातो, जनेरान्तर वितेनर्थत्वात्-न जनिता-पित्रादिरूपतया न जन्म लंभितः । चकाराः सर्वेऽपि समुच्चयार्था अवधारणा
For Private And Personal Use Only