________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यन्ति संसदि मदं विस्फूर्जतां वादिनाम् । यश्चोत्सूत्रपदं न जातु दिशति व्याख्यासु स प्राथते, सच्चारित्रपवित्रितः शुभगुरुः पुण्यैरगण्यैयदि ॥१॥" प्राप्त:-समासादितः 'स' उदितगुणगुरुर्गुरुः 'पुण्येन' भवान्तरसम्भृतसुकतेन ' चेत् ' यदि, तथापिशुभगुरुप्राप्तावपि 'कत्तुं' विधातुं ' स्वहितं ' आत्मन आयतिसुखावहं कर्म सद्धर्मप्रतिपत्तिलक्षणं नालं' न समर्था · अमी' पुण्यप्राप्तशुभगुरवो मर्याः। अथासादितसुगुरवोऽपि ते किमिति न स्वहिताय यतन्ते ? इत्यत आह-'गच्छस्य' स्ववंशा. भ्युपेत यतिवर्गस्य स्थितिः 'युष्मत्कुलादतोऽयं गच्छोऽत एनं विहाय युष्माभिः नान्य. देशना-श्रवण-सम्यक्त्व-प्रतिपत्यादिकं विधेयमिति गृहिणः प्रतीत्य लिङ्गिकता व्यवस्था, तया 'व्याहताः' एवंविधशुभगुरु प्राप्तावपि निःसत्वतया किमेनां गच्छस्थिति मुश्चामो न वेतीति कर्त्तव्यतोद्धान्तान्तःकरणा। एवं गच्छस्थितिव्याहत तेषां स्वहितकरणासामर्थ्यमुपलभ्य तदुपचिकीर्षुः चेतः समुल्लमत्करुणापारावारः प्रकरणकारः प्राह'कं बम' इत्यादि, अतः कं पुरुषविशेषं 'बेमो' भणामः १, के 'इह' जगति ' आश्र. येमहि' सेवेमहि ? के 'आराध्येम' दानादिनोपचरामः १, एतेषां भणनादीनां मध्याकि 'कुर्महे ' विदध्महे ?, यदि कस्यचिन्महात्मनो भणनेन आराधनेन वा गच्छस्थिति विमुच्य सद्धर्मप्रतिपच्या एते स्वहितमाचरन्ति तदेतदपि क्रियते, परोपकृति दी-क्षित्वात्सुपुरुषाणामिति । अथवा यदाहि प्राप्तसुगुरवोऽपि तवं जानाना अप्येवं गच्छस्थित्या व्यामुह्यन्ति तदा कं ब्रूम इत्यादि, अयमर्थ:-अजानानो हि तत्वं स्वयं वा कस्यचिद्भणनाराधनादिना वा तद्बोधयित्वा सद्धर्म स्थाप्येतापि, एते च मृढा जानन्तोऽपि गच्छस्थितिव्याहता, इति कथं तत्र स्थापयितुं पार्यते १, तत् सर्वथाऽस्मचेतस्यमीषां सन्मा. गव्यवस्थापने न कश्चिदुपायः प्रतिस्फुरति, अतः किं कुर्महे ' इति विषादवचनं । इदमत्रैदमय-महासत्वसचोपादेयो ह्ययं सद्धर्मः, एते चातिक्लीवाः, अन्यथा किं विदुषां गच्छस्थितिभिया?, यदि हि लिङ्गिनः स्वलाभादिहेतुना गच्छस्थिति दर्शयन्ति, तथापि गृहिणा परीक्षापूर्व धमः प्रतिपत्तव्य इति वृत्तार्थः ॥ १४ ॥
इदानीं कस्यचिदयोग्यस्या-चार्यपदपाया तदसच्चेष्टितप्रदर्शनेन श्रुतावज्ञा ज्ञाययवाह
क्षुत्क्षामः क्रिल कोऽपि रङ्कशिशुकः प्रव्रज्य चैत्ये कंचित् ॥ १५ ॥ व्याख्या-'क्षुत्क्षाम:' बुभुक्षा क्षीणकुक्षिः गृहस्थावस्थायां, किलेति सम्मावने, कोऽपि-अज्ञातनामा रङ्को' भिक्षाकोऽत् एव कुत्सितोऽनुकम्पितो वा 'शिशुको' बालः, "कुत्सायामनुकम्पने वा कः" । ततो रङ्कश्वासौ शिशुकश्चेति कर्मधारयः । रकस्य वा
For Private And Personal Use Only