________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तादृक्षे निर्बन्धे को हेतुरित्यत आह-'महतो' अतिप्रबलस्य ' मोहस्य' मिथ्याऽभिनिवेशस्यापि तथाविधाभ्यर्चनादिकं 'जम्भित' लीलायितं, तथाहि-न गुरूपदार्शतत्वं निर्गुणेऽपि तच्छिष्ये अभ्यर्चनादि निवन्धनं, यदि हि गुरुः स्वाजन्यादिना निमित्तेन निर्गुणमपि स्वशिष्यं मोहाद् गुरुतया दर्शयति नैतावताऽसौ बहुमानमर्हति, विवेकिनां गुणानामेव बहुमान हेतुत्वात् , ते चेत् तत्र न सन्ति तदा किं निष्फलेन गुरूपदर्शितत्वेन १, तथा स्ववंशजाभ्युपगमस्यापि निर्गुणगुरु बहुमानहेतुत्वे लक्ष्मीप्राप्तावपि नृणां स्वकुलक्रमागतदारियादेरपरित्यागप्रसङ्गात् न चैवं लोक उपलभ्यते, यदुक्तं-" सुगुरुप्राप्तौ कुगुरुं, क्रमानुषक्तमपि जहति धीमन्तः। चिरपरिचितमपि नोज्झति, निधिलामे को नु दौर्गत्यम् ॥ १॥" ततश्चैवं स्थिते यनिर्गुणेऽपि गुरुत्वाभ्युपगमेनाभ्यर्चनाभि सन्धिः स महामोह महिमा एव इति वृत्तार्थः ।। १३ ॥
एतर्हि गच्छमुद्रामुद्रिततया लोकानां सद्धर्माप्रतिपत्त्यादिना श्रुतावज्ञामीक्षमाणाः सविषादमाह
दुष्प्रापा गुरुकर्मसञ्चयवतां सद्धर्मबुद्धिर्नृणां ॥ १४ ॥ व्याख्या-'दुष्प्रापा' दुर्लभा 'सद्धर्मबुद्धि' भगवत्प्रणीत-निरुप-चरित-धर्मजिघृक्षा । पारमेश्वरस्य धर्मस्य सर्वस्यापि शोभनत्वाविशेषात् किं सदिति विशेषणेनेति चेत् ? न,तस्यापीदानी कालदोषात् अनुश्रोतः-प्रति श्रोतोरूपत्वेन द्वैविध्य दर्शनात् , तथाहि-सुखशीलजनैः सिद्धान्तनिरपेक्ष-स्वच्छन्दमतिप्रवर्तितो बहुजनप्रवृत्तिगोचरः पन्था अनुश्रोतः, श्रुतोक्तसकलयुक्त्युपपन्नः स्वयं भगवत्-प्रज्ञापितः प्रेक्षावत् प्रवृत्तिविषयस्तु प्रतिश्रोतः, अंतोऽनुश्रोतोऽव्यवच्छेदेन प्रतिश्रोतः सङ्ग्रहीतुं सदिति विशेषणं । केषां दुष्प्रापा ? 'नृणां' पुंसां 'गुरुकर्मसञ्चयवता महाज्ञानावरणादिसम्भारभाजां, सम्प्रति हि गुरुकर्मत्वान्जीवानां न प्रायेण प्रतिश्रोतसि प्रवृत्तिरुपलभ्यते, यदुक्तं-" अयोग्यभावाद् गुरुकर्मयोगा-ल्लोकप्रवाहस्पृहया दुरापा । प्रायो जनानामधुना प्रवृत्तिः, पथि प्रतिश्रोतसि जैनचन्द्रे ॥१॥" जातायामपि कथकिञ्चित् भव्यत्वपरिपाकात् प्रादुर्भूतायामपि सद्धर्मबुद्धौ ‘दुलेभो' दुरासदः 'शुभगुरु'यथार्थसिद्धान्तप्ररूपनिपुणो लोकप्रवाहबहिर्भूतचेतोवृत्तिः कालाद्यपेक्षानुष्ठानपटिष्टः सूरिः । अयमर्थः-सद्धर्ममनोरथभावेऽपि सदुपदेष्टगुरुं विना नासावासाद्यते, यदुक्तं-" धम्मायरिएण विणा, अलहंता सिद्धिसाहणो । वायं । अरयव तुंबलग्गा, भमंति संसारचक्कम्मि ॥१॥" स च प्रयेण साम्प्रतमुत्सूत्रभाषकाचार्यप्राचुर्येण तथाविधो नाल्पभाग्यलभ्यः, यदुक्तं-“यस्यानल्पविकल्पजल्पलहरीयुग्युक्तयः सूक्तयः, सजं जर्जर
For Private And Personal Use Only