________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इदानीं श्रुतपथा-वज्ञा-द्वार-निरासमुपक्रमते
निर्वाहार्थिनमुज्झितं गुणलवैरज्ञातशीलान्वयं ॥ १३ ॥ व्याख्या-'निर्वाहार्थिनं ' केवलोदरभरणप्रयोजनं, न तु संसारनिस्तारकांक्षिणं, उज्झितं-हीनं ' गुणलवैः' क्षमादिलेशैरपि, प्रव्रज्यायोग्यो हि पुरुषः क्षमादिगुणवान् भवति, तदुक्तं-" पवजाए जोग्गा, आरियदेसम्मि जे समुप्पन्ना। जाइ. कुलेहि विसिट्ठा, तह खीणप्पायकम्ममला ॥१॥ एवं पवइए च्चिय, अवगय संसारनिग्गु
सहावा । तत्तोय तविरत्ता, पयणु-कसायऽप्पहासा य ॥२॥" अयं तु क्षमादि अंशेनापि त्यक्तः । तथा 'शीलं' स्वभावः सद्वृत्तं च ' अन्वयश्च ' कुलं, शीलं चान्वयश्चेति द्वन्द्वः, ततः अज्ञाता-वविदितौ शीलान्वयौ यस्य स तथा, तं । परीक्षित-शीलकुलस्य हि प्रव्रज्यादानं शास्त्रेऽमिहितं, अविदितस्वभावो हि कषायदुष्टादिना कचिदपराधे गुर्वादिना शिक्षितः तमपि जिघांसति, एवमज्ञातवृत्तोऽपि तस्करादिः प्रबजितः तच्छीलत्वात् स-तैन्यादिकं कदाचिदारचन् गच्छमपि तुलायामारोपयति, तथा अविदितकुलो दीक्षितः कथमपि कर्मोदयात् दीक्षां जिहासुर्निरङ्कुशतया जहात्येव, कुलीनस्तु कदाचिदकार्य चिकीर्षुरपि कौलिन्य-सततगुरुशिक्षा-निविडनिगडनियमितो न करोत्येव । तथा 'मुण्डीकतं' दीक्षित 'गुरुणा' आचार्यण । तादृशि-विनेयवंशसमे वंशे जातः स तथाऽकुलोद्भव इत्यर्थः । तथा तेन तत् सजातीयविनेय तुल्या गुणा निःशीलतादयो धर्मा यस्य स तथा । ततः कर्मधारयस्तेन कर्मधारयसमासकरणेन च गुरुशिष्ययो वंशगुणात्यन्तसाजात्यं व्यनक्ति, तादृशो हि तादृशमेव मुण्डयते "समानशीलव्यसनेषु सख्य"मिति वचनात् । 'स्वार्थाय' स्वप्रयोजनाय-स्वशरीरशुश्रूषादिहेतवे, नतु संसारदुःखेभ्यो मोचयितुं, तमेवं विधं 'यदर्चयन्ति' मलयज-घु-सण-घनसारादिना वस्त्रादिना च सततं पूजयन्ति । 'अधिक' मिति क्रियाविशेषणं-अतिरिक्तं देवेभ्यो' जिनेभ्योऽपि 'जनाः' श्रावकलोकाः। ननु ते तं पूजयन्तः तादृग्गुणा एव भविष्यन्तीत्यत आह-'विख्यातगुणान्वया अपि' जगती प्रतीतगाम्भीर्यौदार्य-क्षमादिगुणमहाकुला अपि, आस्तां तदितर इत्यपि शब्दार्थः । कस्मादेवमित्यत आह-लग्नोग्रगच्छग्रहा इति हेतुगर्भ विशेषणं । लग्न:-चेतसि निविष्ट 'उग्रो' दृढो 'गच्छग्रहो' गच्छ प्रतिबन्धो येषां ते तथा । भवतु निगुणो वा गुणी वाऽयं, किं नोऽनया चिन्तया ? गुरुभिरयमस्माकं प्रदर्शितः, तथा अस्मद्वंश्यैरपि अयं गुरुत्वेनाभ्युपगतः, न च वयं तेभ्योऽपि परीक्षा दक्षा, अतः तत्परिपाटीमनुरुध्यमाना नैनं हास्याम इति विहितस्वगच्छगोचरमनोऽभिनिवेशा इत्यर्थः । अथ विदुराणामपि तेषां
For Private And Personal Use Only