________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६० व्याख्या-'गतस्य' पूर्व प्रस्थितस्य कस्यचित् 'अनु' पश्चाद् 'गतं' गमनमन्यस्य यत्तद् गतानुगतं, तदेषामस्तीति गतानुगतिकाः। अस्त्यर्थे इक प्रत्ययस्तद्धितः। अयमर्थः-यथागरिकाः काश्चन दिशं प्रतीत्य काश्चिदेकामविवेकां पुरोगच्छन्तीमवलोक्य तदनुमागेण पाश्चात्याः सर्वा अपि तामनुगच्छन्ति, न मार्गस्य सुगम-दुर्गमत्वादिकं मृगयन्ते, तथा जिनप्रवचने सुखलोलतया कश्चिदेकं प्रवाहमार्गे गच्छन्तं वीक्ष्य तच्छीलतयाऽन्येऽपि तद् न्यायान्यायतामविचारयन्तो ये तमनुगच्छन्ति ते संसारपथाभिनन्दितत्वात् तथोच्यन्ते, तैर्गतानुगतिकै-लोकप्रवाहपतितै-यंत्याभासैः 'अद' एतत्सकलजनप्रत्यक्षं गृहिनियतगच्छभजनादिकं सावद्याचारितम् , अस्य सावद्याचरितस्य अनेकविधस्यापि समुदायरूपतयैकत्व विवक्षणात् । कथमिति क्षेप "गर्भप्रकारवचनो निपातः" केन कुत्सितप्रकारेण 'असंस्तुतं' यतीनाम्-अकृत्यतया अपरिचितम् अपि अनुचितमिति यावत् । प्रस्तुतं' प्रारब्धमादृतमित्यर्थः। तदेव नाम ग्राहमाह-गृही श्रावको 'नियतं' गच्छान्तरपरिहारेणएकतरं 'गच्छं' आचार्य प्रतिबद्ध यतिसमुदाय 'भजते' परिगृह्णाति स तथा, गृहिणां नियतगच्छभाक्त्वे हि यतीनामिदानीं सर्व भक्तपानादि निराबाधं निर्वहतीति धिया तादृश गुरूपदेशेन गृही निश्चितनिजगच्छभाग् भवतीति क्रियापदं यथासम्भवमध्याहार्य, गृहिनियतगच्छभाक्त्वश्च यतीनां तद्गतसकलारम्भानुमत्यादिना पापसत्वप्रसङ्गेना-संस्तुतं । तथा 'जिनगृहे' देवसदने'ऽधिकार' सकलतत्कृत्यचिन्तनं नियोगो 'यते'र्मुनेः, श्राद्धानामिदानी तच्चिन्तानिरवधानता-व्याजेन अस्य चासंस्तुतत्वं चैत्यस्वीकारद्वार-निराकरणे प्रागेव दर्शितं । तथा 'प्रदेयं' वितरणीयं अशनादि, अशनं-भोजनमोदनादि, आदिशब्दात् पानकादिग्रहः 'साधुषु यतिषु । अत्र च सम्प्रदानेऽपि विषयविवक्षया सप्तमी । 'यथा-तथा' येन तेन प्रकारेण-अशुद्धमपीत्यर्थः । 'आरम्मिभि'गृहस्थैरधुना केवलेन शुद्धेनाशनादिना निर्वाहाभावादिति, छद्मना अशुद्धाशनादि दानप्रवर्तनस्य चासंस्तुतत्वम् औद्देशिकभोजननिरसनावसरे प्रतिपादित । तथा 'व्रतं' सर्वविरतिः, आदिशब्दाद्देशविरतिसम्यक्त्वारोपण तदन्तिकगमनादिग्रहः, ततश्च 'व्रतादिविधेः सर्वविरत्यादि-अभ्युपगमस्य 'वारणं' निषेधः 'सुविहितान्तिके' सन्मुनिसमीपे अगारिणां-श्राद्धानां, एतत् देशनापरिणतान्तःकरणा न अस्मत्पार्श्वे दीक्षादिकममी गृहीष्यन्ति इति बुद्ध्या, एतस्य चासंस्तुतत्वं तेषां सुविहिताम्यासे देशनाकर्णन-व्रतादिनिषेधेन यत्याभास उत्सूत्रदेशना असिलताsलून-विवेकमस्तकतया, तद्धेतुकानिवारित-प्रसरदुर्गतिवज्रपाता-पातनात् , अन्यदुर्गतिपातनं च यतीनां पापादपि पापीयः । एवं च चिन्त्यमानमाधुनिकमुनीनां सावद्याचरितमागमविरुद्धतायाः कथं न जाघटीति ? इति काव्यार्थः ॥१२॥८
For Private And Personal Use Only