________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इदानी निगमयति-यस्मात् अर्थे यस्मात् एव-मित्युक्तक्रमेण 'व्रतवैरिणी' चारित्रप्रतिपन्थिनी, इति हेत्वर्थे भिन्नक्रमः स चाग्रे योक्ष्यते, ममता-अर्थादिषु स्वीकारबुद्धिः, इति यस्माद्वेतोने युक्ता-नोपपन्ना-'मुक्त्यर्थिनां' निर्वाणाभिलाषिणां मुनिनामिति वृत्तार्थः ॥ १-१०॥ ६ ॥ साम्प्रतम् असंयमादि-दोषप्रदर्शनेनाप्रेक्षिताद्यासन-द्वारं निराकर्तुमाह
भवति नियतमत्रासंयमः स्याद्विभूषा ॥ ११ ॥ व्या०-' भवति' जायते 'नियत' सर्वदा 'अत्र' गब्दिकाद्यासनेऽसंयमो जीवरक्षाऽभावः, गब्दिकादेर्नित्यस्यूतत्वादिना प्रत्युपेक्षणादि अभावे विवरादिना तदन्तः प्रविष्टानां तदन्तरे चोत्पन्नानां वा प्रसादीनां तत्रोपवेशनेन विनाशसम्भवात् । भिक्षोरिति वृत्तमध्यस्थं पदं सर्वत्र सम्बध्यते । ' स्यात् ' भवेत् — विभूषा ' शोभा, तत्रोपविष्टस्य जगतोऽप्युपरिवर्त्यहमिति विभूषा कार्यभिमानप्रवृत्तेः, विभूषा च यतीनामवश्यं वर्जनीया, यदुक्तं-"विभूसावत्तियं भिक्खू, कम्मं बंधइ चिक्कणं । संसारसायरे घोरे, जेणं पडइ दुरुत्तरे ॥१॥" इति । 'नृपतेः' राजः 'ककुदं' चिह्न, राजादीनामेव प्रायेण महर्द्धिकानां तत्रोपवेशन-दर्शनात् । 'लोकहासो' जनतोत्प्रासनं, चशब्दो दोषसमुच्चये । 'भिक्षोः-यते' अहो !! भिक्षोपजीविनो मुण्डिता अपि एवंविधासनेषूपविशन्तीत्यादि सेयॆजनवचनश्रवणात् 'स्फुटतरो' लोकप्रकटः । इह गन्दिकादौ 'सङ्ग' परिग्रहो महाधनत्वेन मूर्छा. हेतुत्वात् 'सातशीलत्वं' सुखलालसत्वं, तदन्तरेण हंसरूतदिपूर्णेषु सुस्पर्शेषु तथाविधासनेषु यति अनुचिततया सिद्धान्तनिषिद्धेषूपवेशोऽसम्भवी, उच्चै-रतिशयेन, इति हेतौ । एभ्यो हेतुभ्यो 'न खलु' नैव, खलुरवधारणे मुमुक्षो-र्मोक्षार्थिनो यतेः 'सङ्गतं' युक्तियुक्तं गब्दिकाद्यासनं, उपभोगतयेति शेषः। लोकप्रसिद्धो रूतादिभृत आसनविशेषो गब्दिका । आदिशब्दात्-मपूरसिंहासनादिपरिग्रहः । एतेन यदपि “नाणाहिओ वरतरं" इत्याद्यागमबलेन प्रवचनप्रभावनाङ्गतया यतीनां गन्दिकासिहासनादि-आसनोपवेशनसमर्थन तदपि सुखशीलताविलसितं । तदेवं यतीनां गन्दिकाद्यासनमनुपादेयं, असंयमहेतुत्वात् , आधार्मिकभोजनवदिति वृत्तार्थः ॥ ११-७॥
साम्प्रतं सनामोच्चार-सावद्याचरिताभिधान-पुरस्सर-तदोषप्रदर्शनेन सावध्यंचरितद्वारं निरस्यन्नाह
गृही नियतगच्छभाग जिनगृहेऽधिकारो यतेः ॥ १२ ॥ (पृथ्वी)
For Private And Personal Use Only