SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धिष्ठाना इति यावत् , यथा भूताधिष्ठिताः तदावेशात् विधेयापरिज्ञानेनाविधेयमपि पित प्रहारादिकं विदधानास्ततो निवर्यमाना अपि न निवर्तन्ते, एवमेतेऽपि सदसद्विवेकविकलतया कुपथात् न निवर्तन्त इति । अत्र च दिङ्मूढादि बहुविकल्पप्रदर्शमाधुनिकश्राद्धलोकानामत्यन्तानिवर्त्य स्वगच्छग्रहग्रस्तत्वज्ञापनार्थ । 'कृत्वा' विधाय 'मूर्ध्नि' पादं ' श्रुतस्य ' सिद्धान्तस्य, सिद्धान्तोक्तातिक्रमेण निश्शङ्कतया स्वगुरुलिङ्गिप्रवर्तितासन्मार्गपोषणमेव श्रुतमृनिपादकरणं, यतः " नवि किंची" त्याद्यागमशकलस्य इदमु. त्तरार्द्ध-" एसा तेसिं आणा, कजे सच्चेण होयवं" इति । अस्य चायमर्थः-एषा भगवतामाज्ञा, यत्कार्य सत्येन भवितव्यं, कोऽर्थः ? कार्य-ज्ञानादित्रयं, सत्यं च संयमः, यथा यथा ज्ञानादिकं संयमश्चोत्सर्पस्तथातथा यतिना निर्मायं यतितव्यं, यदाह-"कज नाणाईयं, सच्चं पुण संजमो मुणेयवो । जह जह सो होइ थिरो, तह तह कायद्ययं कुणसु ॥१॥ दोसा जेण निरुज्झंति, जेण खिजंति पुबकम्माई । सो सो मुक्खोवाओ, रोगावस्थासु समणं व ॥२॥" न चागमे सुखलिप्सया किश्चित्सूत्रितं, किं तर्हि ? यावता विना संयमज्ञानादि यात्रा नोत्सर्पति तावन्मात्रस्यैव विहितनिवारणस्य निवारित. विधानस्य च भगवद्भिः पुष्टालम्बनेन कादाचित्कतया तत्रानुज्ञानात् । एवं च कथं श्रुतस्याव्यवस्था ? भवदसन्मार्गस्य चौद्देशिकभोजनादेः सर्वस्यापि सार्वेदिकतया निति. शत्वेन केवलसुखानुभवोद्देशेनैव प्रवृत्तेः। तथा च तस्य महासावद्यत्वेन ज्ञानादियात्रादात्रायमाणत्वात् कथं प्रामाण्यमित्याह-अकलितगुणदोपविभागः, स्वपक्षानुरागो यत्या. भासानां यद्भगवन्मतस्याव्यवस्थाऽऽपादनेन स्वमतस्योत्कर्षप्रदर्शनं । किश्च-तीर्थकरपूर्वधरादिसातिशयमहापुरुषविरहे सम्प्रति सिद्धान्त एव नः प्रमाणं । यदुक्तं-" एवं पि अम्ह सरणं, ताणं चक्खू गई पईवो य । भय सिद्धं तो चिया अविरुद्धो इह इदि. टेहिं ॥१॥” तस्य च प्रामाण्यानभ्युपगमे तत्प्रणेतुर्भगवतोऽप्यप्रामाण्याभ्युपगमप्रसङ्गेन भवतस्तन्मूल रजोहरणादिवेषपरित्यागापत्तिः, तथा चायं सुखाशया भव. स्कल्पितः पन्थाः सर्वोऽपि विरुद्ध्यते, एवं च लिङ्गिनां श्रुतस्य मूनि पादकरणमनुचितमपि ज्ञात्वा यदमी प्रत्यक्षगोचराः श्रावक जनाः सुदृढगच्छग्रहग्रन्थयो ' दृष्टोरुदोषा अपि ' साक्षात्कृतगुरुतरपूर्वोदितकुपथापराधा अपि, अदृष्टदोषा हि विवेकिनोऽपि कुपथादपि न निवर्तितुमीशते, किं पुनरन्य इत्यपि शब्दार्थः । 'व्यावृत्ति' अपसरणं 'कुपथात् ' कुमार्गात् 'जडाः । स्वहिताहितविवेकशून्याः 'न दधते 'न चेतसि धारयन्ति न कुर्वन्तीत्यर्थः । न केवलं व्यावृत्ति स्वयं न दधते ' असूयन्ति च ' ईय॑न्ति, सगुणेऽपि दोषमारोपयन्तीति यावत् । चः समुच्चये । एतां कुपथव्यावृत्ति करोति, एतत् For Private And Personal Use Only
SR No.020632
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorHarshraj Upadhyay
PublisherJinduttsuri Gyanbhandar
Publication Year1953
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy