________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृत् तस्मै,"क्रुध-दुहेर्येत्यादिना" चतुर्थी,महामचाय कस्मैचित् कुपथव्यातिविधायिने। अत्र चोत्तरवाक्यार्थगतत्वेन प्रयुज्यमानो यच्छन्दस्तच्छब्दोपादानं विनाऽपि तदर्थ गमयति, तेनायमर्थः-तेषां हि दृष्टदोषत्वात् कुपथात् तावत्स्वयं व्यावृत्तिः कत्तुं युक्ता, अथ कुतोऽपि हेतोः स्वयं न व्यावर्त्तन्ते तदा तव्यावृत्तिकारिणि प्रमोदो विधातुं सङ्गतः, यत् पुनरमी द्वयमध्यादेकमपि कर्तुं नोत्सहन्ते, प्रत्युत कुपथनिवृत्तिविधायिनि कस्मिचिन एकस्मिन्नपि क्षुद्रोपद्रवाय यतन्ते, तत्किममी दिङ्मोहमिता इत्यादि योज्यं, तेनएतदुक्तं भवति-दिङ्मूढादयो हि हितैषिणा व्यावृत्तमाना अपि दिङ्मोहत्वादेावृत्तिमात्रमेव न कुर्वन्ति, एते तु न केवलं कुपथात् न व्यावय॑न्ते यावता कुपथव्यावृत्तिकारिणे. असूयन्त्यपीति तेभ्योऽप्यमी कुत्सिता इति वृत्ताः ।। १७॥
साम्प्रतं लिङ्गिदेशनया श्राद्धैरविधिकृतस्य जिनमञ्जनस्यापि दुर्गतिपातहेतुत्व. प्रतिपादनद्वारेण श्रुतपथावज्ञा दर्शयन्नाह
इष्टावाप्तितुष्टविटनटभटचेटकपेटकाकुलं ॥ १८ ॥ व्याख्या-'जैनमञ्जन' भगवद्विम्बस्नात्रं कर्तृ 'जनयत्येव' सम्पादयत्येव, नतु कदाचित् न जनयत्यपीत्येवकारार्थः । 'अघपङ्के' पापकर्दमे 'निमज्जनं ' बुडनं कर्म, तत्कर्तृणामितिशेषः। अथ कथं पुण्याय विधीयमानं जिनस्नानं पापपङ्कनिमजनाय प्रभवति इति आह-'अविधिना' सिद्धान्तोक्तक्रमविपर्ययेण, प्राक्तनविशेषणान्यथाऽनुपपच्या रात्रावित्यर्थः, सिद्धान्ते हि रजन्यां जिनस्नात्रं निवारितमतस्तत्र तत्कुर्वतां कथं न पातकमित्यर्थः। अथ कं दोषमभिप्रेत्य सिद्धान्ते रात्रिस्नात्रनिवारणमिति दोषप्रदर्शनाय हेतुगर्भ विशेषणत्रयं मजनस्याह-इष्टावाप्ति इत्यादि, इटाया-वल्लभाया मजनदर्शनमिषेणागताया 'अवाप्ति'मेलकस्तया तुष्टा-निश्शङ्कमत्राद्य नःसुरतलीला प्रयत्स्यतीति धिया मुदिता 'विटा' वेश्यापतयः 'नटा' नाटकाभिनयकलोपजीवितः 'भट्टा' शस्त्रादिकला. जीविनः 'चेटका' मासादि-नियमितवृत्तिग्राहिणः, एषां 'पेटकं' समुदायस्तेना-'कुलं' क्षुभितं,प्रेयसी प्राप्त्या साविकमावेनाकुलीकृतविटादिजनाकीर्णत्वात् मजमप्युपचारादाकुलं, तथा 'निधुवनविधिनिषद्धदोहदा' मोहनविलसितविहिताभिलापाः या 'नरनार्यः' पुरुष. योषिताः तासां 'निकरण' निचयेन 'सङ्कलं' व्याप्त । नारीणां प्रायो निधुवनार्थमेव मजनावलोकनछमना तत्र गमनात् , तथाविधव्याजमन्तरेण रात्रौ तत्राप्यागमनासम्भवात् , तथाविधव्याजेन चान्यत्र गन्तुमशक्तत्वात् । अत एव 'रागः कश्चित् परस्त्रीं प्रत्यभिष्वङ्गः 'द्वेषः' स्वस्त्रीमन्येन सह सङ्गच्छमानां पश्यतः तजिघांसा 'मत्सरः' कश्चित्सौभाग्येन कयाचित्
For Private And Personal Use Only