Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धिष्ठाना इति यावत् , यथा भूताधिष्ठिताः तदावेशात् विधेयापरिज्ञानेनाविधेयमपि पित प्रहारादिकं विदधानास्ततो निवर्यमाना अपि न निवर्तन्ते, एवमेतेऽपि सदसद्विवेकविकलतया कुपथात् न निवर्तन्त इति । अत्र च दिङ्मूढादि बहुविकल्पप्रदर्शमाधुनिकश्राद्धलोकानामत्यन्तानिवर्त्य स्वगच्छग्रहग्रस्तत्वज्ञापनार्थ । 'कृत्वा' विधाय 'मूर्ध्नि' पादं ' श्रुतस्य ' सिद्धान्तस्य, सिद्धान्तोक्तातिक्रमेण निश्शङ्कतया स्वगुरुलिङ्गिप्रवर्तितासन्मार्गपोषणमेव श्रुतमृनिपादकरणं, यतः " नवि किंची" त्याद्यागमशकलस्य इदमु. त्तरार्द्ध-" एसा तेसिं आणा, कजे सच्चेण होयवं" इति । अस्य चायमर्थः-एषा भगवतामाज्ञा, यत्कार्य सत्येन भवितव्यं, कोऽर्थः ? कार्य-ज्ञानादित्रयं, सत्यं च संयमः, यथा यथा ज्ञानादिकं संयमश्चोत्सर्पस्तथातथा यतिना निर्मायं यतितव्यं, यदाह-"कज नाणाईयं, सच्चं पुण संजमो मुणेयवो । जह जह सो होइ थिरो, तह तह कायद्ययं कुणसु ॥१॥ दोसा जेण निरुज्झंति, जेण खिजंति पुबकम्माई । सो सो मुक्खोवाओ, रोगावस्थासु समणं व ॥२॥" न चागमे सुखलिप्सया किश्चित्सूत्रितं, किं तर्हि ? यावता विना संयमज्ञानादि यात्रा नोत्सर्पति तावन्मात्रस्यैव विहितनिवारणस्य निवारित. विधानस्य च भगवद्भिः पुष्टालम्बनेन कादाचित्कतया तत्रानुज्ञानात् । एवं च कथं श्रुतस्याव्यवस्था ? भवदसन्मार्गस्य चौद्देशिकभोजनादेः सर्वस्यापि सार्वेदिकतया निति. शत्वेन केवलसुखानुभवोद्देशेनैव प्रवृत्तेः। तथा च तस्य महासावद्यत्वेन ज्ञानादियात्रादात्रायमाणत्वात् कथं प्रामाण्यमित्याह-अकलितगुणदोपविभागः, स्वपक्षानुरागो यत्या. भासानां यद्भगवन्मतस्याव्यवस्थाऽऽपादनेन स्वमतस्योत्कर्षप्रदर्शनं । किश्च-तीर्थकरपूर्वधरादिसातिशयमहापुरुषविरहे सम्प्रति सिद्धान्त एव नः प्रमाणं । यदुक्तं-" एवं पि अम्ह सरणं, ताणं चक्खू गई पईवो य । भय सिद्धं तो चिया अविरुद्धो इह इदि. टेहिं ॥१॥” तस्य च प्रामाण्यानभ्युपगमे तत्प्रणेतुर्भगवतोऽप्यप्रामाण्याभ्युपगमप्रसङ्गेन भवतस्तन्मूल रजोहरणादिवेषपरित्यागापत्तिः, तथा चायं सुखाशया भव. स्कल्पितः पन्थाः सर्वोऽपि विरुद्ध्यते, एवं च लिङ्गिनां श्रुतस्य मूनि पादकरणमनुचितमपि ज्ञात्वा यदमी प्रत्यक्षगोचराः श्रावक जनाः सुदृढगच्छग्रहग्रन्थयो ' दृष्टोरुदोषा अपि ' साक्षात्कृतगुरुतरपूर्वोदितकुपथापराधा अपि, अदृष्टदोषा हि विवेकिनोऽपि कुपथादपि न निवर्तितुमीशते, किं पुनरन्य इत्यपि शब्दार्थः । 'व्यावृत्ति' अपसरणं 'कुपथात् ' कुमार्गात् 'जडाः । स्वहिताहितविवेकशून्याः 'न दधते 'न चेतसि धारयन्ति न कुर्वन्तीत्यर्थः । न केवलं व्यावृत्ति स्वयं न दधते ' असूयन्ति च ' ईय॑न्ति, सगुणेऽपि दोषमारोपयन्तीति यावत् । चः समुच्चये । एतां कुपथव्यावृत्ति करोति, एतत्
For Private And Personal Use Only

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132