Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
" अद्धाणनिग्गयाई, तिक्खुत्तो मग्गिऊण असईए।
गीयत्था जयणाए, वसंति तो दव सागरिए ॥ ८॥" " अद्धाणनिग्गयाई, वासे सावयभए व तेणभए ।
आवलिया तिविहे वी, वसंति जयणाइ गीयत्था ॥ ९॥" इयं यतना स्त्रीसंसक्तिवसतिमधिकृत्योक्ता। पशुपण्डकसंसक्तायामपि वसतौ वसताम् एतदनुसारेण सम्भविनी यतना दृष्टव्या, तदयमर्थः-स्त्रीसंसक्त्यादि सम्भवेऽप्येवं विध यतना सावधानानां मुनीनां तजन्या दोषाः प्रादुष्यन्ति सर्वत्रेति, सर्वमिन् अपि वसत्यधिकारप्रवृत्तोदेशकादौ । नन्वेवं यतनावतां चैत्यवासेऽपि को दोष ? इत्यत आह न तु, 'तु' पुनर्भेदेऽवधारणे वा, तेन न पुन व वा 'मत' इष्टः कापि उद्देशकादौ चैत्यजिनगृहे निवासो निवास इत्युभयत्र योज्यते, एतदुक्तं भवति-यदि हि चैत्यवासो यतीनां क्वचिन्मतः स्यात् तदा स्त्रीसंसक्त्यादि युक्त इव गृहे वसतां, तत्रापि काश्चित् यतनां ब्रूयात् न चेवं, ततोऽवसीयते-अगारिधाम्न्येव संयतां-यतीनां वासो, न चैत्य इति । तस्मात् न सकर्णेन तत द्वेषो विधेय इति काव्यद्वयार्थः॥९॥
साम्प्रतमर्थादित्रय-गोचरस्वीकार-द्वारत्रयमेकवृत्तेनाह
प्रव्रज्याप्रतिपन्थिनं न तु धनस्वीकारमाहुर्जिनाः, ॥ १० ॥
व्याख्या-नत्वित्यक्षमायां, न क्षम्यत एतत् , यदुत-साधूनां धनस्वीकार इति, यतो 'धनस्वीकार' द्रव्यसङ्ग्रहं 'आहुः' बुवन्ति जिनाः, अत्र जिनानाम् इदानी मतीतत्वेनोपदेशासम्भवात् 'आहुः' इत्यत्रातीतविभक्तिप्राप्तावपि यद्वर्तमानकथनं तत्तेषां स्वागमैः ग्रन्थसङ्ग्रहविपाकप्रतिपादकैः स्फुरद्रपतयाऽद्य यावदनुवृत्तिभिरभेदाध्यवसायेन वर्तमानतयाऽवभासात् तदुपदेशदानप्रदर्शनेन शिष्याणां धनस्वीकारं प्रत्यतिजिहीर्षा यथा स्यादिति ज्ञापनार्थ, एवं उत्तरपदेऽपि योज्यम् । कीदृशं ? 'प्रव्रज्यायाः' सर्वसङ्गत्यागरूपाया दीक्षायाः 'प्रतिपन्थिनं' विरोधिनं, विरोधश्चात्र बध्यघातकलक्षणः तथाहिद्रव्यसङ्ग्रहो मूपिरिणामः प्रव्रज्या च तद्विरतिपरिणामः तयो चात्र बलवता मूपिरि. णामेन तद्विरतिपरिणामो बाध्यत इति तथा 'सर्वारम्भिणां' सकलसावद्यारम्भप्रवृत्तानां गृहिणां परिग्रहो मूर्छाहेतुः मामकत्वबुद्धिः स तथा, तं । तुशब्दोऽर्थस्वीकारात् अस्य भेदप्रदर्शनार्थः । अतिशयेन ' महासावा' महासपापं ' आचक्षते ' वदन्ति, जिना इति पूर्वस्माद् अनुकृष्यते । अत्र चाहुरिति क्रियाऽनुवृत्त्यैव सावधसिद्धावाचक्षत इति पुनरमिधानं
For Private And Personal Use Only

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132