Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 76
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इदानी निगमयति-यस्मात् अर्थे यस्मात् एव-मित्युक्तक्रमेण 'व्रतवैरिणी' चारित्रप्रतिपन्थिनी, इति हेत्वर्थे भिन्नक्रमः स चाग्रे योक्ष्यते, ममता-अर्थादिषु स्वीकारबुद्धिः, इति यस्माद्वेतोने युक्ता-नोपपन्ना-'मुक्त्यर्थिनां' निर्वाणाभिलाषिणां मुनिनामिति वृत्तार्थः ॥ १-१०॥ ६ ॥ साम्प्रतम् असंयमादि-दोषप्रदर्शनेनाप्रेक्षिताद्यासन-द्वारं निराकर्तुमाह भवति नियतमत्रासंयमः स्याद्विभूषा ॥ ११ ॥ व्या०-' भवति' जायते 'नियत' सर्वदा 'अत्र' गब्दिकाद्यासनेऽसंयमो जीवरक्षाऽभावः, गब्दिकादेर्नित्यस्यूतत्वादिना प्रत्युपेक्षणादि अभावे विवरादिना तदन्तः प्रविष्टानां तदन्तरे चोत्पन्नानां वा प्रसादीनां तत्रोपवेशनेन विनाशसम्भवात् । भिक्षोरिति वृत्तमध्यस्थं पदं सर्वत्र सम्बध्यते । ' स्यात् ' भवेत् — विभूषा ' शोभा, तत्रोपविष्टस्य जगतोऽप्युपरिवर्त्यहमिति विभूषा कार्यभिमानप्रवृत्तेः, विभूषा च यतीनामवश्यं वर्जनीया, यदुक्तं-"विभूसावत्तियं भिक्खू, कम्मं बंधइ चिक्कणं । संसारसायरे घोरे, जेणं पडइ दुरुत्तरे ॥१॥" इति । 'नृपतेः' राजः 'ककुदं' चिह्न, राजादीनामेव प्रायेण महर्द्धिकानां तत्रोपवेशन-दर्शनात् । 'लोकहासो' जनतोत्प्रासनं, चशब्दो दोषसमुच्चये । 'भिक्षोः-यते' अहो !! भिक्षोपजीविनो मुण्डिता अपि एवंविधासनेषूपविशन्तीत्यादि सेयॆजनवचनश्रवणात् 'स्फुटतरो' लोकप्रकटः । इह गन्दिकादौ 'सङ्ग' परिग्रहो महाधनत्वेन मूर्छा. हेतुत्वात् 'सातशीलत्वं' सुखलालसत्वं, तदन्तरेण हंसरूतदिपूर्णेषु सुस्पर्शेषु तथाविधासनेषु यति अनुचिततया सिद्धान्तनिषिद्धेषूपवेशोऽसम्भवी, उच्चै-रतिशयेन, इति हेतौ । एभ्यो हेतुभ्यो 'न खलु' नैव, खलुरवधारणे मुमुक्षो-र्मोक्षार्थिनो यतेः 'सङ्गतं' युक्तियुक्तं गब्दिकाद्यासनं, उपभोगतयेति शेषः। लोकप्रसिद्धो रूतादिभृत आसनविशेषो गब्दिका । आदिशब्दात्-मपूरसिंहासनादिपरिग्रहः । एतेन यदपि “नाणाहिओ वरतरं" इत्याद्यागमबलेन प्रवचनप्रभावनाङ्गतया यतीनां गन्दिकासिहासनादि-आसनोपवेशनसमर्थन तदपि सुखशीलताविलसितं । तदेवं यतीनां गन्दिकाद्यासनमनुपादेयं, असंयमहेतुत्वात् , आधार्मिकभोजनवदिति वृत्तार्थः ॥ ११-७॥ साम्प्रतं सनामोच्चार-सावद्याचरिताभिधान-पुरस्सर-तदोषप्रदर्शनेन सावध्यंचरितद्वारं निरस्यन्नाह गृही नियतगच्छभाग जिनगृहेऽधिकारो यतेः ॥ १२ ॥ (पृथ्वी) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132