Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 78
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इदानीं श्रुतपथा-वज्ञा-द्वार-निरासमुपक्रमते निर्वाहार्थिनमुज्झितं गुणलवैरज्ञातशीलान्वयं ॥ १३ ॥ व्याख्या-'निर्वाहार्थिनं ' केवलोदरभरणप्रयोजनं, न तु संसारनिस्तारकांक्षिणं, उज्झितं-हीनं ' गुणलवैः' क्षमादिलेशैरपि, प्रव्रज्यायोग्यो हि पुरुषः क्षमादिगुणवान् भवति, तदुक्तं-" पवजाए जोग्गा, आरियदेसम्मि जे समुप्पन्ना। जाइ. कुलेहि विसिट्ठा, तह खीणप्पायकम्ममला ॥१॥ एवं पवइए च्चिय, अवगय संसारनिग्गु सहावा । तत्तोय तविरत्ता, पयणु-कसायऽप्पहासा य ॥२॥" अयं तु क्षमादि अंशेनापि त्यक्तः । तथा 'शीलं' स्वभावः सद्वृत्तं च ' अन्वयश्च ' कुलं, शीलं चान्वयश्चेति द्वन्द्वः, ततः अज्ञाता-वविदितौ शीलान्वयौ यस्य स तथा, तं । परीक्षित-शीलकुलस्य हि प्रव्रज्यादानं शास्त्रेऽमिहितं, अविदितस्वभावो हि कषायदुष्टादिना कचिदपराधे गुर्वादिना शिक्षितः तमपि जिघांसति, एवमज्ञातवृत्तोऽपि तस्करादिः प्रबजितः तच्छीलत्वात् स-तैन्यादिकं कदाचिदारचन् गच्छमपि तुलायामारोपयति, तथा अविदितकुलो दीक्षितः कथमपि कर्मोदयात् दीक्षां जिहासुर्निरङ्कुशतया जहात्येव, कुलीनस्तु कदाचिदकार्य चिकीर्षुरपि कौलिन्य-सततगुरुशिक्षा-निविडनिगडनियमितो न करोत्येव । तथा 'मुण्डीकतं' दीक्षित 'गुरुणा' आचार्यण । तादृशि-विनेयवंशसमे वंशे जातः स तथाऽकुलोद्भव इत्यर्थः । तथा तेन तत् सजातीयविनेय तुल्या गुणा निःशीलतादयो धर्मा यस्य स तथा । ततः कर्मधारयस्तेन कर्मधारयसमासकरणेन च गुरुशिष्ययो वंशगुणात्यन्तसाजात्यं व्यनक्ति, तादृशो हि तादृशमेव मुण्डयते "समानशीलव्यसनेषु सख्य"मिति वचनात् । 'स्वार्थाय' स्वप्रयोजनाय-स्वशरीरशुश्रूषादिहेतवे, नतु संसारदुःखेभ्यो मोचयितुं, तमेवं विधं 'यदर्चयन्ति' मलयज-घु-सण-घनसारादिना वस्त्रादिना च सततं पूजयन्ति । 'अधिक' मिति क्रियाविशेषणं-अतिरिक्तं देवेभ्यो' जिनेभ्योऽपि 'जनाः' श्रावकलोकाः। ननु ते तं पूजयन्तः तादृग्गुणा एव भविष्यन्तीत्यत आह-'विख्यातगुणान्वया अपि' जगती प्रतीतगाम्भीर्यौदार्य-क्षमादिगुणमहाकुला अपि, आस्तां तदितर इत्यपि शब्दार्थः । कस्मादेवमित्यत आह-लग्नोग्रगच्छग्रहा इति हेतुगर्भ विशेषणं । लग्न:-चेतसि निविष्ट 'उग्रो' दृढो 'गच्छग्रहो' गच्छ प्रतिबन्धो येषां ते तथा । भवतु निगुणो वा गुणी वाऽयं, किं नोऽनया चिन्तया ? गुरुभिरयमस्माकं प्रदर्शितः, तथा अस्मद्वंश्यैरपि अयं गुरुत्वेनाभ्युपगतः, न च वयं तेभ्योऽपि परीक्षा दक्षा, अतः तत्परिपाटीमनुरुध्यमाना नैनं हास्याम इति विहितस्वगच्छगोचरमनोऽभिनिवेशा इत्यर्थः । अथ विदुराणामपि तेषां For Private And Personal Use Only

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132