Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीन्तनमुनिनां सङ्गतिमङ्गति २। तथा वसत्यक्षमेति, वसतौ-परगृहे निवासं प्रति. अक्षमा-मात्सर्य, आधाकर्म-स्त्रीसंसक्त्यादिदोषजालरहितजिनगृहवासलामे आधार्मिकवसतिवासस्य अत्यन्तमनुचितत्वात् । को ह्युन्मत्तः पथ्याशनप्राप्तावपथ्यमश्नीयात् , तस्मास्परगृहवसतिरसमीचिनाऽधुनातनयतीनां । यश्चागमे परगृहवासः श्रूयते स तात्कालिकसात्विक यति अत्यपेक्षयेति ३। तथा 'स्वीकारः' स्वायत्तापादनं, केषु ? इत्याह-'अर्थो' द्रविणं 'गृहस्थः श्राद्धः 'चैत्यसदनं ' जिनगृहं ततोऽर्थश्चेत्यादि द्वन्द्वः, तेषु । तत्र द्रव्यस्वीकारस्यागमे निषिद्धत्वेऽपि साम्प्रतयतीनां तत्स्वीकारो युक्तः, तं विना ग्लान-परचक्रदुर्भिक्षाद्यवस्थायां भेषजपथ्याद्यनुपपत्तेः । प्रायेण गृहमेधिनां कालदोषानिर्द्धनत्वेन निर्द्धमत्वेन च यतिचिन्ताद्यविधानात् , तेनार्थस्वीकारः साम्प्रतिकमुनीनां सङ्गत इवाभातीति ४ । तथा श्रावकस्वीकारोऽपि अद्यतनमुनीनामुत्सर्गापवादपदविदुराणां न नियुक्तिकः। पूर्व हि कालस्य सौस्थ्यादतिशयवत्पुरुषबाहुल्याञ्जनमतबाह्या अपि जनाः श्वेताम्बरभिक्षुभ्यः सबहुमान भिक्षादिकं वितेरुः, साम्प्रतं तु जैनमार्गवैमुख्येन तेषां तथाविध श्वेताम्बरदित्साया अभावात् , अतः श्राद्धस्वीकारं विना भिक्षाऽवातेरप्यनुपपत्तयुक्तः सम्प्रति श्राद्धस्वीकारः ५॥ तथा चैत्यस्वीकारोऽपि मुनीनां समीचीनः, सम्प्रति गृहस्थानां चैत्यचिन्तां प्रति निरवधानतया यतिस्वीकारमन्तरेण कालेन तद्भश सम्भवात् मार्गलोपप्रसङ्गेन चागमे त्वर्थापच्या तत्स्वीकारस्याभिधानात् ६ । तथा न विद्यते 'प्रेक्षितं ' चक्षुषानिरीक्षणं, आदिशब्दात्प्रमार्जनं रजोहरणादिना यत्र तदासनं विष्टरं स्यूतगब्दिकादौ शुषिरगम्भीरसिंहासनादौ च प्रत्युपेक्षणादि यतीनां न शुद्ध्यति, तेन च तत्र न कल्पते उपवेष्टुं । चैत्यावासिनश्चैवं प्रतिपद्यन्ते-प्रवचनप्रभावनाहेतोस्तादृशासनो. पवेशनस्यापि साधियस्त्वात, प्रवचनप्रभावनाया: प्रधानदर्शनाङ्गत्वेन यथाकथश्चन विधेयत्वात् । ततः सिद्धमिदं-आचार्याणां गन्दिकाद्यासनमुपादेयं, प्रवचनप्रभावनाङ्गत्वात , सम्मत्यादिप्रमाणशास्त्राध्ययनवत् ७ । तथा 'सावा' सपापं 'आचरितं' आचरणा, तत्र 'आदर!' अग्रहः । आचरणा हि निरवद्यैव प्रमाणं, एषा तु सावद्या, गृ[हि]ह (?) दिग्बन्धाद्याचरणाद्यभ्युपगमे यतेस्तद्विधीयमाननिखिलपापारम्भानुमत्याद्यापत्तेः, तथा ह्येषा चैत्यवासिभिरादृता, यतस्तेषामयमाशयः-प्रायेण सम्प्रतितन-यतीनां गृहस्थान्योऽन्याकृष्ट्या कलहेनाव्यवस्थया सर्वमसमञ्जसमापद्यते, तस्मादेषाऽप्याचरणाऽद्यतनकालापेक्षया युक्तिमतीति ८। तथा 'श्रुतस्य' सिद्धान्तस्य ' पन्था' मार्गस्तत्रावज्ञाअनादरः। ते ह्येवमाहुः-भगवत्सिद्धान्तो हि नैकान्तनिष्ठो, विहितानामपि केषश्चिदनुष्ठानानां क्वचिनिषेधात् निषिद्धानामपि क्वचिद्विधानात् , अतो न आस्थां कृत्वा केवलया सिद्धान्तव्यवस्थया किमपि कर्तुं परिहतुं वा पार्यते, तेनागमबहिष्टाऽपि काचित्सुकुमार
For Private And Personal Use Only

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132