Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दृष्यतीत्याह-'शास्त्रेषु' प्रन्थेषु निशीथादिषु ' प्रतिषिध्यते ' यतिभोज्यतया निवार्यते यद्भक्तं, कथं ? असकृत्-अत्यन्तदुष्टताख्यापनाय मुहुर्मुहुः, तथा च आहारोपधि-वसत्यापाकर्मविचारावसरे निशीथेऽभिहितं" एए साममयरं, आहाकम्मं तु गिण्हए [भुंजइ] जोउ ।
सो आणा अणवत्थं, मिच्छत्तविराहणं पावे ॥१॥" तथा पिण्डनियुक्तावपि--- "आकम्मं मुंजइ न पडिक्कमए य तस्स ठाणस्स । एमेव अडइ बोडो,लुत्तविलुत्तो जह कवोडो॥२"
दशवैकालिकनियुकावपि" उहिटुकडं भुंजइ छक्कायपमहणे घरं कुणइ। पञ्चक्खं च जलगए,जो पीअइ कहन्नु सो साहू ?॥३॥"
नन्वस्तु एवमागमनिषेधः तथापि तस्य मुनिना स्वयमकृताकारिताननुमतत्वात्तदा ददानस्य तस्य मुनेः को दोषः ? इत्याह-निस्त्रिंशता' निश्शूकता-निर्दयत्वं 'आधत्ते' करोति यत्तत्तदाधायि-निश्शूकताकारकं यद्भक्तं । अयं भाव:-स्वयमकृताधप्याधाकर्मजानन् गृह्णानो मुनिर्भक्तिमद् गृहिणः प्रसङ्गासञ्जनात् अत्यन्तगृध्नुनिश्शूकत्वेन मचित्तमपि न जह्यात् , अतः कथं न दोषः ?, तदुक्तं"सच्चं तहवि मुणतो, गिणतो वड्ढए पसंग से। निद्धंधसो य गिद्धो,न मुअइ सजियं पि सो पच्छा।।१
अत एव अस्यन्तम् एतत् जिहापयिषया गणधरा आनुरूप्येण-उपमानानि दर्शयामासुः। तथा चाह-गोमांसादीति, गो:-सुरभेर्मासं, आदिशब्दात् वान्तोचारसुगग्रहः तेरूपमा सादृश्यं यस्य तत्तथा । यद्भक्तमाहु-ब्रुवते गणधराः, यथाहि गोमांसभक्षणं लोकधर्मविरुद्धत्वेन महापापहेतुत्वादत्यन्तनिन्दितत्वाच्च विवे किनां सर्वथा हेयं, तथाऽऽधाकर्मभक्तमपि, एवं वान्तादिष्वपि यथासम्भवं योज्यं । अथेति प्रकारान्तरे, यद्भक्तं भुक्त्वा मुनिर्याति-गच्छति 'अधोऽधस्तात् , संयमादिति ज्ञेयं, अथवा अधोगति-नरकं । अत्र च वृत्ते एक वाक्यस्थेनैव यच्छब्देन सकलवाक्याथै दीपिते यत्प्रतिपदं यच्छन्दो पादानं तत्सङ्घादिभक्तस्यात्यन्तपरिहरणीयता ख्यापनार्थ । यत्साध्वाभासै:-इदानीन्तनकालापेक्षया यतीनामाधाकर्मभोजनमपीष्यते तदनुमानाभ्यां निषिध्यते, तथाहि-यतीनामाधाकर्मभोजनमनुपादेयं, षड्जीवनिकायोपमर्द निष्पन्नत्वात् , तथाविध वसत्यादिवत् । तथा यतीनामाधाकमभोजनमभोज्यं, धर्मलोकविरुद्धत्वाद् , गोमांसादिवदिति । एवं चोपपत्रमेतत्-सङ्घादिभक्तं यतीना न भोक्तव्यमिति वृत्तार्थः ॥ ६ ॥
For Private And Personal Use Only

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132