SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दृष्यतीत्याह-'शास्त्रेषु' प्रन्थेषु निशीथादिषु ' प्रतिषिध्यते ' यतिभोज्यतया निवार्यते यद्भक्तं, कथं ? असकृत्-अत्यन्तदुष्टताख्यापनाय मुहुर्मुहुः, तथा च आहारोपधि-वसत्यापाकर्मविचारावसरे निशीथेऽभिहितं" एए साममयरं, आहाकम्मं तु गिण्हए [भुंजइ] जोउ । सो आणा अणवत्थं, मिच्छत्तविराहणं पावे ॥१॥" तथा पिण्डनियुक्तावपि--- "आकम्मं मुंजइ न पडिक्कमए य तस्स ठाणस्स । एमेव अडइ बोडो,लुत्तविलुत्तो जह कवोडो॥२" दशवैकालिकनियुकावपि" उहिटुकडं भुंजइ छक्कायपमहणे घरं कुणइ। पञ्चक्खं च जलगए,जो पीअइ कहन्नु सो साहू ?॥३॥" नन्वस्तु एवमागमनिषेधः तथापि तस्य मुनिना स्वयमकृताकारिताननुमतत्वात्तदा ददानस्य तस्य मुनेः को दोषः ? इत्याह-निस्त्रिंशता' निश्शूकता-निर्दयत्वं 'आधत्ते' करोति यत्तत्तदाधायि-निश्शूकताकारकं यद्भक्तं । अयं भाव:-स्वयमकृताधप्याधाकर्मजानन् गृह्णानो मुनिर्भक्तिमद् गृहिणः प्रसङ्गासञ्जनात् अत्यन्तगृध्नुनिश्शूकत्वेन मचित्तमपि न जह्यात् , अतः कथं न दोषः ?, तदुक्तं"सच्चं तहवि मुणतो, गिणतो वड्ढए पसंग से। निद्धंधसो य गिद्धो,न मुअइ सजियं पि सो पच्छा।।१ अत एव अस्यन्तम् एतत् जिहापयिषया गणधरा आनुरूप्येण-उपमानानि दर्शयामासुः। तथा चाह-गोमांसादीति, गो:-सुरभेर्मासं, आदिशब्दात् वान्तोचारसुगग्रहः तेरूपमा सादृश्यं यस्य तत्तथा । यद्भक्तमाहु-ब्रुवते गणधराः, यथाहि गोमांसभक्षणं लोकधर्मविरुद्धत्वेन महापापहेतुत्वादत्यन्तनिन्दितत्वाच्च विवे किनां सर्वथा हेयं, तथाऽऽधाकर्मभक्तमपि, एवं वान्तादिष्वपि यथासम्भवं योज्यं । अथेति प्रकारान्तरे, यद्भक्तं भुक्त्वा मुनिर्याति-गच्छति 'अधोऽधस्तात् , संयमादिति ज्ञेयं, अथवा अधोगति-नरकं । अत्र च वृत्ते एक वाक्यस्थेनैव यच्छब्देन सकलवाक्याथै दीपिते यत्प्रतिपदं यच्छन्दो पादानं तत्सङ्घादिभक्तस्यात्यन्तपरिहरणीयता ख्यापनार्थ । यत्साध्वाभासै:-इदानीन्तनकालापेक्षया यतीनामाधाकर्मभोजनमपीष्यते तदनुमानाभ्यां निषिध्यते, तथाहि-यतीनामाधाकर्मभोजनमनुपादेयं, षड्जीवनिकायोपमर्द निष्पन्नत्वात् , तथाविध वसत्यादिवत् । तथा यतीनामाधाकमभोजनमभोज्यं, धर्मलोकविरुद्धत्वाद् , गोमांसादिवदिति । एवं चोपपत्रमेतत्-सङ्घादिभक्तं यतीना न भोक्तव्यमिति वृत्तार्थः ॥ ६ ॥ For Private And Personal Use Only
SR No.020632
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorHarshraj Upadhyay
PublisherJinduttsuri Gyanbhandar
Publication Year1953
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy