________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इदानी देवद्रव्योपभोगदूषणप्रदर्शनद्वारेण जिनगृहवासनिराकरणायाह--
गायद्गन्धर्वनृत्यत्पणरमणिरणद्वेणुगुञ्जन्मृदङ्ग । व्याख्या-खलुनिश्चये, जिनगृहे ' अर्हन्मतज्ञा' भगवदागमनिपुणा यतयो नैव वसन्ति, तदागमे तद् निवासस्यात्यन्तं निवारणात् , सन्तो-विवेकिनः । कुतः १ इत्यत आह-'सती' शोभनाऽकृत्रिमा भक्तिः तस्या 'योग्य' उचितं, तस्मिन् , भक्तिरेव यतस्तत्र कत्तुं युज्यते । भक्तियोग्यतामेव विशेषतो विशेषणद्वारेण दर्शयति-गायदित्यादि, गायन्तो-भगवद् गुणानेवोत्कीर्तयन्तो 'गन्धर्वाः ' प्रधानगायना यत्र तत्तथा, नृत्यन्ती-नाट्यशास्त्रोक्तक्रमेण करचरणादि-अङ्गविक्षेपं कुर्वती 'पणरमणी' वारस्त्री नृत्यकी यत्र तत्तथा, रणन्तो-मुखमरुताभिघातान्मधुरं धनन्तो 'वेणवो' वंशा यत्र तत्तथा, गुञ्जन्तो-मार्दङ्गिकैः पाणिभ्यां ताडनाद् गम्भीरं स्वनन्तो ' मृदङ्गा' मरु[ मुर]जा यत्र तत्तथा, प्रेवन्त्यो-लम्बमानत्वात् मन्दपवनेन कम्पमाना देवसेवार्थ विरचिताः 'पुष्पस्रजः' पुष्पमाला यत्र तत्तथा, उद्यत्-भगवत्प्रतिमा विलेपनार्थ विमर्दनसमुच्छलद्धद्वारेण प्रसरन्मृगमदः-कस्तूरिका यत्र तत्तथा, लसन्तः-पट्टांशुकमयत्वान्मुक्ताफलादिविच्छिसि युक्तत्वाच्च दीप्यमाना उल्लोचा-श्चन्द्रोदया यत्र तत्तथा, चश्चन्तो-महाधनवस्त्रालङ्कारालङ्कृतशरीरत्वात् भ्राजिष्णवो 'जनौघाः' श्रावकसङ्घा यत्र तत्तथा, ततश्च गायनन्धर्व च तन्नत्यत्पणरमणि चेत्यादि कर्मधारयस्तस्मिन् । एतानि हि भगवद्गुणगानादीनि प्रवराणि जिनगृहे भक्तिहेतुकानि, भव्यानां शुभभावोल्लासहेतुत्वात् श्रद्धालुभिः क्रियन्ते, अथैवविध भक्तियोग्यजिनगृहे किमिति साधवो न निवसन्ति ? अत आह'सन्तो' विम्यन्तः, कुतो ? देवद्रव्यस्य ' उपभोगः ' सततं तत्र शयनासनभोजनादिकरणेन उपयोगः तथा 'ध्रुवा' शाश्वती-यावज्जीवं अथवा 'ध्रुवं ' निश्चितं 'मठो' जिनगृहजगतीसम्बद्धो यतिनिमित्तनिष्पन्न उपाश्रयस्तस्य 'पतिता' आधिपत्यं-जिनगृहलेख्यकोवाहिणिका कर्मान्तरादि सकलचिन्ताकारित्वेनाधिकारित्वमिति यावत् । तथा भगवत्प्रतिमा-प्रत्यासत्तौ भोजन-शयनासन-निष्ठीवनाद्यविधिकरणेन भवत्याशातना अवज्ञा, ततश्च देवद्रव्योपभोगश्चेत्यादि द्वन्द्वः । ताभ्यः । अथ गृहिणा भगवनिमित्तं स्वद्रविणेन निर्मापिते देवगृहे वसतो देवद्रव्यं कनकादिकमनुपभुञ्जमानस्य यतेः कथं देवद्रव्योपभोगः १, जिनद्रव्यनिष्पन्ने हि तत्र निवसतस्तद्रव्यं साक्षाद्भुञ्जानस्य गृण्हतो त्रास स्यादिति चेन्न, गृहिणा स्वद्रव्यनिर्मापितत्वेऽपि तस्मिन् देवार्थ कृतत्वेन देवद्रव्यत्वात् , तथा च तत्र वमतः साक्षात्तद्धनमनुपभुञ्जानस्यापि मुनेर्देवद्रव्योपभोगोपपत्तेः, साक्षाद्देव. द्रव्यनिष्पन्ने तु का वार्ता ? इति यतिभिर्जिनगृहे न वासः कार्य इति वृत्तार्थ ॥ ७ ॥
For Private And Personal Use Only