________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४
इदानीं जिनाद्यासेवितत्वेन सिद्धान्तोक्तत्वेन च यतीनां परगृहवसतिं व्यस्थापयन् वसत्यक्षमा द्वारं काव्यद्वयेन निरसिसिषुराह -
साक्षाज्जिनैर्गणघरैश्च निसेवितोक्तां ॥ ८ ॥
चित्रोत्सर्गापवादे यदिह शिवपुरीदूतभूते निशीथे ॥ ९ ॥
व्याख्या -- कः सकर्णः पुमान् 'परगृहे' गृहस्थगृहे ' वसतिं ' निवासं 'विद्वेष्टि ' मात्सर्यात् न क्षमते - निषेधयति । मुनिपुङ्गवानां सुविहितयतीनां न कश्चिदित्यर्थः । अयमर्थः-अकर्णो हि कर्णौ विना सिद्धान्तोक्तामपि परगृहवसतिमनाकर्णयन् द्विष्यादपि, यः पुनः ' सकर्णः ' सश्रवणः अथ च सहृदयः -- परगृहवासचैत्यान्तर्वास गुणदोषविचारचतुर इति, स परगृहवसतिं यतीनामनुमोदयत्येव, न तु द्वेष्टि । किंरूपां वसतिं १ 'निषेविता' च सोक्ता चेति कर्मधारयः । कथं ? ' साक्षात् ' प्रत्यक्षं स्वयमित्यर्थः । कैः ९ जिनै - स्तीर्थकृद्भिर्गण धेरै - गौतमस्वामिप्रभृतिभिः । चः समुच्चये । जिनादिभिरुक्ता, तां । तथा सज्यते सक्यते जनोऽस्मिन्निति सङ्गः -गृह-धन- कनक तनय वनिता स्वजन - परिजनादिपरिग्रहः, निर्गताः सङ्गात् निःस्सङ्गास्तेषां भावस्तत्ता, तस्या ' अग्रिमं ' मुख्यं ' पदं स्थानं नीनां परगृहसतिः, अथवा निस्सङ्गताया ' अग्रिमं ' मौलं 'पदं' लक्ष्म-लिङ्गमित्यर्थः "पदं व्यवसितत्राण-स्थानलक्ष्मांहि वस्तुषु" इत्यनेकार्थवचनात् । निस्सङ्गाता हि मुनित्वलक्षणं, वह्निरिव दाहपाकादिसामर्थ्यस्य तस्याश्च लिङ्ग परगृहवसतिः, नहि स्वाधीने विभवे विद्वान् कश्चित्परमुपजीवेदिति । अत्र च पदशब्दस्यावि [ शि ]ष्टलिङ्गत्वान्न विशेष्यलिङ्गता किं कुर्वन् विद्वेष्टि १ इत्यत आह- 'जानन्' आगमश्रवणेनावबुद्ध्यमानेः । कां ? शय्यातर इत्युक्ति-र्भाषा, ताम् । सिद्धान्ते हि शय्यातर इति भाषा श्रूयते, न चासौ साधूनां परगृहवासं विनोपपद्यते, तथाहि - ' शय्याया' वसत्या यतिभ्यो दानं, तया तरति संसारसमुद्रमिति शय्या तर शब्दार्थः परगृहवसतिं विना यतीनां न कश्चित्साधुशय्यादाने यतेत, न च तरणमस्तीति शय्यातरशब्दस्य स्वार्थालाभे निर्विषयत्वापच्या सिद्धान्ते प्रतिस्थानमुच्चारणं कथमिव शोभां विभृणात् १, तस्मादागमे शय्यातरशब्दश्रुतेरपि परगृहवसतिर्मुनीनां ज्ञायते । तथा अनगारपदं च, जानन्निति सम्बध्यते । चः समुच्चये । न विद्यते ' अगारं ' गृहं यस्यासौ अनगारः, ततश्च अनगार इति पदव्यपदेशः, श्रुते नगारपदं यतिवाचकं प्रतिपदं श्रूयते तच्च तेषां स्वागराभावेन परागारवासेन च सङ्गच्छते । अन्यथा स्वागारसद्भावे चैत्यवासे वा यथाक्रमं यतेर्गृहपतिमठपति-व्यपदेशप्रसङ्गेना- नगारपदवैयर्थ्य मापद्येतेति । ननु यदि हि सर्वागमे चैत्य
For Private And Personal Use Only