________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वासोऽनभिमतः स्यात्तदा परगृहवसतिः क्षम्येतापि, यदा तु तत्र कचिच्चैत्यवासे कथितेऽपि हठेनैव भवद्भिः परगृहवसतिरास्थीयते, तदा कथं क्षम्यते ? इत्याहचित्रोत्सर्गेत्यादि, यद्यस्मात् इहप्रवचने 'निशिथे' प्रकल्पाध्ययने पश्चमोद्देशकादौ किम्भूते ? सामान्यविधिरुत्सर्गःविशेषविधिरपवादः। उत्सर्गश्चापवादश्चेति द्वन्द्वः। ततश्च 'चित्रौ' नानाविधौ वसत्यादिगोचरावुत्सर्गापवादो-सामान्यविशेषविधी यत्र स तथा, तत्र तथा 'शिवपूर्या' मोक्षनगर्या 'दूतभूत: सन्देशहरसदृशस्तत्र, भूतशब्दस्यात्र सदृशबाचित्वात् , 'प्राक' प्रथमं ' उक्त्वा' प्रतिपाद्य 'भूरिभेदाः' प्रभृतप्रकारा 'गृहिगृहवसती: ' गृहस्थसदनरूपोपाश्रयान् पश्चात्-चरमं कारणे तथविधवसत्यलाभलक्षणे हेतौ 'अपोद्य' अपवादविषयी कृत्य, ता एवेति गम्यते । अयमर्थ:-निशीथे पूर्वमौत्सर्गिका वसतिभेदा यतिवासयोग्यत्वेन कथिताः, ।
यथा
" मूलुत्तरगुणविसुद्धं, थी-पसु-पंडक - विवज्जियं वसहिं ।
सेविज सव्वकालं, विवन्नए इंति दोसाओ ॥ १ ॥ " विच्छिन्ना खुड्डलिया, पमाणजुत्ता उ तिविह वसहीओ । पढमबीयासु ठाणे, तस्य य दोसा इमे हुंति ॥ २ ॥
तथा साध्वीरुद्दिश्योदितं-- "गुत्तागुत्तहारा, कुलपत्ते सत्ति-मंत-गंभीरे। भीयपरिस्समद्दविए, अज्जा सिजायरे भणिए॥१॥
" घणकुड्डासकवाडा, सागारियभगिणिमाइ पेरंता ।
निप्पञ्चवायजोगा, विच्छिन्नपुरोहडा ( पश्चाद्वाटकाः ) वसही ॥ २ ॥ तदलामे पश्चात्ता एवापवादोदिताः। यथा-द्रव्यप्रतिबद्धायामपि वसतौ कारणे न वस्तव्यं, तथा चाह
" अद्धाणनिग्गयाई, तिक्खुत्तो मग्गिऊण असईए।
गीयत्था जयणाए, वसंति तो दव्वपडिबद्धे ॥ १" " रूवं आभरणविही, वत्थालंकारभोयणे गंधे । आउज-नट्ट-नाडय, गीए सयणे य दवम्मि ॥ २ ॥"
For Private And Personal Use Only