Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 39
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ર 1 6 व्याख्या - जिनपति० ॥ तैः - चैत्यवासिभिः इयं स्वगच्छस्थितिः - स्वगच्छमर्यादा अधुना - साम्प्रतम् अप्रथि - विस्तारिता । कस्यै ? स्वार्थसिद्ध्यै - स्वोदरभरणप्रयोजनाय । कथम्भूता ! स्ववशजडजनानां, स्ववशाः - आत्मवशा ये जडा:- मूर्खा जना:लोकास्तेषां शृङ्खला इव अस्मान् विमुच्य नान्यत्र गन्तव्यम् ' एवं श्रृङ्खला । क सति ? साधुवेषैः - साधुवेषमात्रधार कैस्तैरेव कालतः पञ्चमारकात् जिनपतिमतदुर्गेः अभिभूते-पराभूते, जिनपतेः - तीर्थकरस्य मतं - शासनं तदेव दुर्ग:- कोट्टविशेषस्तस्मिन् । कथम्भूतैः? विषयिभिः- विषयसेवकैः । पुनः किम्भूतैः १ मस्मकम्लेच्छसैन्यैः, मस्मकः - भस्मग्रह एव म्लेच्छ:- तुरष्काधिपतिस्तस्य सैन्याः सैन्यस्वरूपास्ते, यथा तुरष्काधिपतेः सैन्यं भवति तथा भस्मकस्यैते सैन्या इति ॥ ३९ ॥ सम्प्रत्यप्रतिमे कुसङ्घवपुषि प्रोज्जृम्भिते भस्मकम्लेच्छाच्छबले दुरन्तदशमाश्चर्ये च विस्फूर्जिते । प्रौढिं जग्मुषि मोहराजकटके लोकैस्तदाज्ञापरैरेकीभूय सदागमस्य कथयाऽपीत्थं कदर्थ्यामहे ॥ ४० ॥ ॥ इति श्रीसङ्घपट्टकसूत्रं सम्पूर्णम् ॥ व्याख्या - सम्प्र० ॥ लोकैर्वयम् इत्थम् - अमुना प्रकारेण कदर्थ्यामहे । कया ? सदागमस्य कथयाऽपि सन् - प्रधानः आगमः - सिद्धान्तस्तस्य सदागमस्य कथयाऽपि - कथनेनापि । यदा शुद्धमार्गस्य कथाsपि क्रियते तदा लोकाः कदर्थनां कुर्वन्तीति । वसति १ सम्प्रति - अधुना मस्मकम्लेच्छा तुच्छबले प्रोज्जृम्भिते, भस्मकः - भस्मग्रहः, स एव म्लेच्छः-तुरष्काधिपतिस्तस्य अतुच्छं- प्रचुरं बलं तस्मिन् प्रोज्जृम्भिते - प्रोद्दीप्ते सति । कथम्भूते बले ? अप्रतिमे - महातेजस्विनि, पुनः कथम्भूते ! कुसङ्घः - वपुषि, कुसङ्घः - हीनाचारिसङ्घ एव वपुः - शरीरं यस्य स तस्मिन् प्रत्यक्षतो दृश्यमानकु सङ्घशरीरे च-पुनः दुरन्तदशमाश्चर्ये- दुष्टासंयत पूजालक्षणदशमाश्चर्ये विस्फूर्जिते - प्रकटीभूते सति । कविवचसा दशमाश्चर्यस्य पञ्चमारके प्रादुर्भावः । पुनः मोहराजकटके - मोहनीय कर्मरूपराजसैन्ये प्रौढि - विस्तारत्वं जग्मुषि - प्राप्तवति । भस्मकग्रह चैत्यवास्यादयः सर्वेऽपि मोहनीयसैन्यरूपा एव । किं कृत्वा कदर्थ्यामहे ? एकीभूय - एकपक्षतां कृत्वा । कथम्भूतै १ तदाज्ञापरैः, तस्य मोहराजस्य आज्ञा, तत्र पराः - सावधानास्तै:- मोहाज्ञावशवर्त्तिभिः । संसाररूपनगरे मोहराजा दुस्सङ्घस्तस्य सैन्यं - भस्मग्रहो महासामन्तो दशमाश्वर्यं द्वितीयः सामन्त इति रहस्यमिति काव्यार्थः ॥ ४० ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132