________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ર
1
6
व्याख्या - जिनपति० ॥ तैः - चैत्यवासिभिः इयं स्वगच्छस्थितिः - स्वगच्छमर्यादा अधुना - साम्प्रतम् अप्रथि - विस्तारिता । कस्यै ? स्वार्थसिद्ध्यै - स्वोदरभरणप्रयोजनाय । कथम्भूता ! स्ववशजडजनानां, स्ववशाः - आत्मवशा ये जडा:- मूर्खा जना:लोकास्तेषां शृङ्खला इव अस्मान् विमुच्य नान्यत्र गन्तव्यम् ' एवं श्रृङ्खला । क सति ? साधुवेषैः - साधुवेषमात्रधार कैस्तैरेव कालतः पञ्चमारकात् जिनपतिमतदुर्गेः अभिभूते-पराभूते, जिनपतेः - तीर्थकरस्य मतं - शासनं तदेव दुर्ग:- कोट्टविशेषस्तस्मिन् । कथम्भूतैः? विषयिभिः- विषयसेवकैः । पुनः किम्भूतैः १ मस्मकम्लेच्छसैन्यैः, मस्मकः - भस्मग्रह एव म्लेच्छ:- तुरष्काधिपतिस्तस्य सैन्याः सैन्यस्वरूपास्ते, यथा तुरष्काधिपतेः सैन्यं भवति तथा भस्मकस्यैते सैन्या इति ॥ ३९ ॥
सम्प्रत्यप्रतिमे कुसङ्घवपुषि प्रोज्जृम्भिते भस्मकम्लेच्छाच्छबले दुरन्तदशमाश्चर्ये च विस्फूर्जिते । प्रौढिं जग्मुषि मोहराजकटके लोकैस्तदाज्ञापरैरेकीभूय सदागमस्य कथयाऽपीत्थं कदर्थ्यामहे ॥ ४० ॥
॥ इति श्रीसङ्घपट्टकसूत्रं सम्पूर्णम् ॥
व्याख्या - सम्प्र० ॥ लोकैर्वयम् इत्थम् - अमुना प्रकारेण कदर्थ्यामहे । कया ? सदागमस्य कथयाऽपि सन् - प्रधानः आगमः - सिद्धान्तस्तस्य सदागमस्य कथयाऽपि - कथनेनापि । यदा शुद्धमार्गस्य कथाsपि क्रियते तदा लोकाः कदर्थनां कुर्वन्तीति । वसति १ सम्प्रति - अधुना मस्मकम्लेच्छा तुच्छबले प्रोज्जृम्भिते, भस्मकः - भस्मग्रहः, स एव म्लेच्छः-तुरष्काधिपतिस्तस्य अतुच्छं- प्रचुरं बलं तस्मिन् प्रोज्जृम्भिते - प्रोद्दीप्ते सति । कथम्भूते बले ? अप्रतिमे - महातेजस्विनि, पुनः कथम्भूते ! कुसङ्घः - वपुषि, कुसङ्घः - हीनाचारिसङ्घ एव वपुः - शरीरं यस्य स तस्मिन् प्रत्यक्षतो दृश्यमानकु सङ्घशरीरे च-पुनः दुरन्तदशमाश्चर्ये- दुष्टासंयत पूजालक्षणदशमाश्चर्ये विस्फूर्जिते - प्रकटीभूते सति । कविवचसा दशमाश्चर्यस्य पञ्चमारके प्रादुर्भावः । पुनः मोहराजकटके - मोहनीय कर्मरूपराजसैन्ये प्रौढि - विस्तारत्वं जग्मुषि - प्राप्तवति । भस्मकग्रह चैत्यवास्यादयः सर्वेऽपि मोहनीयसैन्यरूपा एव । किं कृत्वा कदर्थ्यामहे ? एकीभूय - एकपक्षतां कृत्वा । कथम्भूतै
१ तदाज्ञापरैः, तस्य मोहराजस्य आज्ञा, तत्र पराः - सावधानास्तै:- मोहाज्ञावशवर्त्तिभिः । संसाररूपनगरे मोहराजा दुस्सङ्घस्तस्य सैन्यं - भस्मग्रहो महासामन्तो दशमाश्वर्यं द्वितीयः सामन्त इति रहस्यमिति काव्यार्थः ॥ ४० ॥
For Private And Personal Use Only