________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१
प्रवादाः । पुनः किम्भूताः ! नियम, नियमः - अभिग्रहः, शमः - उपशमः, दमः - इन्द्रियजयः, औचित्यं - योग्यता, गाम्भीर्यम् - अलक्ष्यविकारत्वं, धैर्यं धीरत्वं, स्थैर्यविमृष्टकारित्वम्, औदार्यम् - उदारत्वम् आर्यचर्या - सत्पुरुषप्रवृत्तिः, विनयः - अभ्युत्थानादिः, नयः- न्यायः, दया- कृपा, दक्ष्यं धर्मक्रियाऽनालस्यं, दाक्षिण्यं - सरलता, एभिर्गुणैः पुण्याः - पवित्राः ॥ ३७ ॥
-
स्वनामगर्भितकाव्यमाह -
बिभ्राजिष्णुमगर्वमस्मरमनासादं श्रुतोलङ्घने,
सज्ज्ञानमणि जिनं वरवपु: - श्रीचन्द्रिकाभेश्वरम् । वन्दे वर्ण्यमनेकधाऽसुरनरै; शक्रेण चैनच्छिदं, दम्भारं विदुषां सदा सुवचसाऽनेकान्तरङ्गप्रदम् ॥ ३८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या- बिभ्रा० || जिनं - तीर्थकरं वन्दे । किम्भूतं जिनं १ बिभ्राजिष्णुम्अतिशयैः शोभायमानम् । पुनः अगर्वम् - अहङ्काररहितम् । पुनः अस्मरं - कन्दर्परहितम् । पुनः किम्भूतं श्रुतोल्लङ्घने- सिद्धान्ताज्ञाऽतिक्रमे अनाशादम्, आशां - मनोरथं ददातीति आशादः, न आशादोऽनाशादस्तम् । पुनः किम्भूतं १ सज्ज्ञानद्युमणिं, सज्ज्ञानेन प्रधानकेवलज्ञानेन धुमणि- सूर्यम् । पुनः किम्भूतं १ वरा - प्रधाना वपुः श्रीः- शरीरकान्तिः सैव चन्द्रिका - ज्योत्स्ना तथा मेश्वरं - नक्षत्रनाथं चन्द्रम् । असुरनरै:- दानवमानवैः शक्रेणइन्द्रेण अनेकधा - अनेकप्रकारेण वर्ण्य-वर्णनीयम् । पुनः एनच्छिदम् एन:- पापं छिनत्तीति पापच्छेदकमित्यर्थः । पुनः दम्भारिं, दम्भस्य - कपटस्य अरि:- वैरी दम्भारिस्तम् । पुनः विदुषां पण्डितानां सदा निरन्तरं सुवचसा - सुवाक्येन अनेकान्तरङ्गप्रदम्, अनेकान्तः स्याद्वादस्तस्य रङ्गस्तं प्रददातीति अनेकान्तरङ्गप्रदस्तम् । वचनेन भगवान् स्याद्वादत्वं प्ररूपयन्तीति । चक्रमाघसमं, यथा माघकाव्ये चक्रबन्धतया वर्त्तते तथाsत्र चक्रमाघतुल्यं चक्रबन्धं ' जिनवल्लभेन गणिनेदं चक्रे ' इति नाम वर्त्तते । चक्रस्थापना प्रसिद्धैव ॥ ३८ ॥
9
जिनपतिमतदुर्गे कालतः साधुवेषै, - र्विषयिभिरभिभूते भस्मकम्लेच्छसैन्यैः । स्ववशजडजनानां शृङ्खलेव स्वगच्छे, स्थितिरियमधुना तैरप्रथि स्वार्थसिद्ध्यै ॥ ३९ ॥
For Private And Personal Use Only