Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 48
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१ अक्षतकलिः अखण्डितकलह चित्रम् - आचर्य - चैत्यगृहे गृहीयति गृह इव आचरति । निजे गृहे कुटम्बीयति - कुटुम्ब इवाचरति । स्वं - आत्मानं शक्रीयति - शक्रमिवाचरति बुधान् - पण्डितान् बालिशीयति मूर्खानिवाचरति । विश्वं जगत् वराकीयति-रङ्कमि वाचरति, अतो मूर्ख बहुलं जगत्, यतेः कुलशीलादिकं न विचारयति किञ्चित् मोहनोश्चाटनाद्यद्भुतमवलोक्य दुष्टमपि यतिं देववत् पूजयन्तीत्यर्थः ॥ १५ ॥ अस्मिन्नेवार्थे - अपरमपि वृत्तमाह यैर्जातो न च वर्द्धितो न च न च क्रीतोऽधमर्णो न च ॥ १६ ॥ 11 व्याख्या - यैर्जातो ० ॥ तैरेव अधमाधमैः - अत्यधमैः यतिभिः अयं जनो- लोक बलात् हटात् वाह्यते-यत्र तत्र नीयते अतः हा ! इति कष्टे इदं जगत् नीराजकं - राजशून्यं, राजा चेद् भवति तदा एतदनुचितं न भवति इत्यर्थः । तैः कैः १ यैः यतिभिरयं लोको न जातः - नोत्पादितः योगक्षेमादिसंपादनेन, यैर्न च वर्द्धितः - शरीरपोषणं न प्रापितः, यैर्न च क्रीतः - अन्यस्मान्मूल्यदानेन न गृहीतः, न च अधमर्णेन - उद्धारादिप्रयोगेण गृहीतः, न च प्राक् पूर्वं दृष्टः - अवलोकितः, न च बान्धवः पितृव्यभ्रातृसम्बन्धवान्, न च प्रेयान् वल्लभतरः, न च प्रीणितः - तोषितः । एतावता ये यतयः न दृष्टा, न श्रुताः, न च संबन्धिनः, तैर्दुष्टैर्यतिभिः अयं जनो लोकः बलाद् वाह्यते । किंवत् १ नस्योत पशुवत् यथा नस्यितः पशुर्यत्र तत्र नीयते इत्यर्थः । चकारः सर्वसमुच्चयार्थः || १६ ॥ कुपथावस्थितजडजनानवलोक्य प्रकरणकारः प्राह किं दिग्मोहमिताः किमन्धबधिराः किं योगचूर्णीकृताः ॥ १७ ॥ व्याख्या - किं दिग्मोह० ' यद् यस्माद्धेतोः अमी जड़ा:- मूर्खाः जनाः कुपथात् - कुमार्गात् व्यावृत्तिम् - अपसरणं न दधते न कुर्वते तस्माद्धेतोः एते जनाःलोकाः किं दिग्मोहम् इताः पूर्वादिदिक्षु पश्चिमादिविभ्रमः दिग्मोहः तं प्राप्ताः । किं अन्धबहिराः जाताः ? अन्धा: - नेत्रहीनाः । बधिराः - कर्णहीनाः । किं वा योगचूर्णीकृताः ? - मस्तकादिषु चूर्णक्षेपेण वशीकृताः । किं वा दैवोपहताः १ दैवेन विधिना उपहताः - विभ्रंशं प्रापिताः । ' अंगे 'ति संबोधने । किं वा ठगिताः ? - स्वायत्तीकृताः । किं वा ग्रहावेशिता ? - भूतादिशरीराधिष्ठानाः । न केवलं कुपथप्रवृत्ताः एव संति किन्तु एतत् कृते, कोऽर्थः ९ जिन मार्गकृते जिनमार्गनिमित्तं असूयन्ति च - ईर्षां कुर्वन्ति च । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132