Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मार्गाद् वैमुख्यं-विमुखतां आतन्वते-विस्तारयति । मिथ्यावादिना मिथ्यावचनेन अभिमुखा अपि जना जिनमार्गाद् विमुखा भवन्ति, इति श्लोकार्थः ।। २५ ॥ सर्वैरुत्कटकालकूटपटलैः सर्वैरपुण्योञ्चयैः, व्याख्या-'सर्वैरुत्कट०' ॥२६॥' ततः' इति पश्चात् श्लोकस्यात्र वर्तते । ततो हेतोः-पश्चादुक्त हेतोः-अमुं-दुर्मार्गम् आसेदुषां-प्रस्थितानां मानसं नूनं निश्चितं एतैः क्रूरमकारि-करं कृतम् एतै कैः ? सर्वैः उत्कटकालकूटपटलैः अत्युग्रविषसमूहै न केवलं उत्कटकालकूटपटलैः सर्वैः अपुण्योच्चयैः-सकलपापराशिभिः, न केवलमेतैः सर्वैर्या लकुलैश्च-अशेषसर्पसमूहैः, न केवलमेतैः समस्तविधुराधिव्याधिदुष्टग्रहैः सकलदुःखमनोव्यथामङ्गलादिपापग्रहै । कथम्भूतानां ? दौरात्म्येन-दुष्टाशयत्वेन जिनपथं निजन्ध्नु षाम्-उच्छेतृणां, पुनः कथम्भूतानाम् ? वचनेन इति ऊचुषाम्-अभिदधुषाम् ॥ २६ ॥ अतः -- दुर्भेद्यस्फुरदुप्रकुमहतमः स्तोमास्तधी चक्षुषां ॥ २७ ॥ व्याख्या-'दुर्भेद्यस्फुरदुग्र०' अतो हेतोः सदा-सर्वदा मिथ्याचारवतामोक्षमार्गविपरीताचारयुक्तानां वचांसि सकर्णः-सश्रवणः कथं कर्णे कुरुते ? कथं श्रवणे धारयति ? अपि तु न कथमपि इत्यर्थः। कथम्भूतानां मिथ्याचारवतां ? स्वयं नष्टा. नाम् पुनः कथम्भूतानाम् ? अन्यनाशनकते-परनाशाय बद्धोद्यमानां स्वयम् नष्टा परानपि नाशयन्तीत्यर्थः। पुनः कथंभूतानां ? 'महामोहाद् 'घन-प्रचुरतरा-विवेका 'अहं मानिनां'-अहमेव, नान्यः इति मानिनां । पुनः कथम्भूतानां ? सिद्धान्तद्विषतांजिनशास्त्रवैरिणाम् । पुनः कथम्भूतानां ? दुर्भेद्यस्फुरदुग्रकुग्रहतमःस्तोमास्तधीचक्षुषांदुर्भेद्याः दुच्छेध्या स्फुरंतो-मनसि जाग्रदूपाः ये उग्रकुप्रदा:-जिनगृहनिवासादयस्त एव तमःस्तोमा:-अन्धकारपटलानि, तैरस्तं प्रापितं धीरेव चक्षुर्येषां तेषाम् ॥ २७॥ यत्किश्चिद् वितथं यदप्यनुचितं यल्लोक-लोकोत्तरो ॥ २८ ॥ व्याख्या-'यत् किञ्चित्०' यत कुधियः-कुबुद्धयः तत्तद्धर्म इति अवन्तिअयमेव धर्म इति कथयन्ति तत् दुरन्त-दशमाश्चर्यस्य विस्फूर्जित-विजृम्भितं, तत्, किं यत् किश्चित् वितथं-अलीकं यदिति सामान्यतो निर्दिष्टं विशेषतोऽनिर्दिष्टनामा, यदप्यनुचितम्-अयोग्यं यल्लोकलोकोत्तरोत्तीर्ण-जिनमार्गाद् बहिर्भूतं जिनप्रवचनवाचं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132