________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मार्गाद् वैमुख्यं-विमुखतां आतन्वते-विस्तारयति । मिथ्यावादिना मिथ्यावचनेन अभिमुखा अपि जना जिनमार्गाद् विमुखा भवन्ति, इति श्लोकार्थः ।। २५ ॥
सर्वैरुत्कटकालकूटपटलैः सर्वैरपुण्योञ्चयैः, व्याख्या-'सर्वैरुत्कट०' ॥२६॥' ततः' इति पश्चात् श्लोकस्यात्र वर्तते । ततो हेतोः-पश्चादुक्त हेतोः-अमुं-दुर्मार्गम् आसेदुषां-प्रस्थितानां मानसं नूनं निश्चितं एतैः क्रूरमकारि-करं कृतम् एतै कैः ? सर्वैः उत्कटकालकूटपटलैः अत्युग्रविषसमूहै न केवलं उत्कटकालकूटपटलैः सर्वैः अपुण्योच्चयैः-सकलपापराशिभिः, न केवलमेतैः सर्वैर्या लकुलैश्च-अशेषसर्पसमूहैः, न केवलमेतैः समस्तविधुराधिव्याधिदुष्टग्रहैः सकलदुःखमनोव्यथामङ्गलादिपापग्रहै । कथम्भूतानां ? दौरात्म्येन-दुष्टाशयत्वेन जिनपथं निजन्ध्नु षाम्-उच्छेतृणां, पुनः कथम्भूतानाम् ? वचनेन इति ऊचुषाम्-अभिदधुषाम् ॥ २६ ॥
अतः
--
दुर्भेद्यस्फुरदुप्रकुमहतमः स्तोमास्तधी चक्षुषां ॥ २७ ॥ व्याख्या-'दुर्भेद्यस्फुरदुग्र०' अतो हेतोः सदा-सर्वदा मिथ्याचारवतामोक्षमार्गविपरीताचारयुक्तानां वचांसि सकर्णः-सश्रवणः कथं कर्णे कुरुते ? कथं श्रवणे धारयति ? अपि तु न कथमपि इत्यर्थः। कथम्भूतानां मिथ्याचारवतां ? स्वयं नष्टा. नाम् पुनः कथम्भूतानाम् ? अन्यनाशनकते-परनाशाय बद्धोद्यमानां स्वयम् नष्टा परानपि नाशयन्तीत्यर्थः। पुनः कथंभूतानां ? 'महामोहाद् 'घन-प्रचुरतरा-विवेका 'अहं मानिनां'-अहमेव, नान्यः इति मानिनां । पुनः कथम्भूतानां ? सिद्धान्तद्विषतांजिनशास्त्रवैरिणाम् । पुनः कथम्भूतानां ? दुर्भेद्यस्फुरदुग्रकुग्रहतमःस्तोमास्तधीचक्षुषांदुर्भेद्याः दुच्छेध्या स्फुरंतो-मनसि जाग्रदूपाः ये उग्रकुप्रदा:-जिनगृहनिवासादयस्त एव तमःस्तोमा:-अन्धकारपटलानि, तैरस्तं प्रापितं धीरेव चक्षुर्येषां तेषाम् ॥ २७॥
यत्किश्चिद् वितथं यदप्यनुचितं यल्लोक-लोकोत्तरो ॥ २८ ॥ व्याख्या-'यत् किञ्चित्०' यत कुधियः-कुबुद्धयः तत्तद्धर्म इति अवन्तिअयमेव धर्म इति कथयन्ति तत् दुरन्त-दशमाश्चर्यस्य विस्फूर्जित-विजृम्भितं, तत्, किं यत् किश्चित् वितथं-अलीकं यदिति सामान्यतो निर्दिष्टं विशेषतोऽनिर्दिष्टनामा, यदप्यनुचितम्-अयोग्यं यल्लोकलोकोत्तरोत्तीर्ण-जिनमार्गाद् बहिर्भूतं जिनप्रवचनवाचं
For Private And Personal Use Only