________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनमार्गादतीतमित्यर्थः, यद्धविना-देहिनां भवहेतुरेव येन संसारबन्धो भवतीत्यर्थः, यतः शास्त्रबाधाकर-सिद्धान्तविरुद्धं न केवलं धर्म इति कथयन्ति । अर्हन्मतभ्रान्त्या लान्ति च, कोऽर्थः ? जिनमार्गोऽयमिति मिथ्याज्ञानेन गृह्णन्ति च, कथम्भूतास्ते ? मूढाः ॥ २८॥
साम्प्रतं मुग्ध जनान् प्रति स्वमतं मोक्षपथतया दिशत, सत्पथगामिनश्च धार्मिकान् स्ववचनाननुरोधित्वेनाज्ञतया अवजानानस्य कस्यचिद्यथा छन्दाचार्य ग्राम प्योऽप्रस्तुत प्रशंसया स्वरूपमाह
कष्टं नष्टदिशां नृणां यदिदृशां जात्यन्धवैदेशिकः ॥ २९ ॥ व्याख्या-'कष्टं ' दुःखमेतनश्वेतसि वर्त्तते, यत्किमित्याह-यदिति वाक्योपक्षेपे, यन्नृणामदृशां जात्यन्धवैदेशिकः कान्तारेऽभीप्सितपुराध्वानं प्रदिशतीति सम्बन्धः । तत्र 'नृणां' पुंसां नष्टदृशां-अलोचनत्वात् कान्तारपातेन दिङ्मूढत्वाच्च प्रभ्रष्टप्राचीप्रतीच्यादिककुविभागपरिच्छेदानां, अदृशां-काचकामलादिना दगविकलानां, न तु जन्मान्धानां, जन्मान्धो जन्माभिव्याप्त्या लोचनरहितः । ननु सोऽपि तद्देशजात इतरेभ्यः श्रवणादिना विज्ञाय कथञ्चिदिष्टपुरपथं देक्ष्यतीति तत्रोक्तं "वैदेशिक" इति, विदेशेयोजनशतव्यवहिते देशान्तरे जातो वर्द्धितश्चेति वैदेशिकः । सहि तद्देशस्वरूपमात्रस्याप्यनभिज्ञत्वात्कथं प्रकृतमार्ग जानी यादपि । ततः कर्मधारयः। कान्तारे' जनसञ्चारशून्ये दुर्गवमनि 'प्रदिशति' प्रतिपादयति अभीप्सितपुरावानं-जिगमिषिसनगरमार्ग, किलेति वार्तायां, उत्कन्धरः-उद्ग्रीवः कन्धरामुन्नमय्य भुजदण्डमुत्क्षिप्य कथयतीतिकष्टमेतत् । तुः पुनरर्थे, इदं वक्ष्यमाणं पुनः कष्टतरं-पूर्वस्मादपि कष्टान्महाकष्ट, यत् किमित्याह-'सोऽपि' प्रागुतो मार्गदेष्टा 'सुदृशो' निर्मलनयनानत एव 'सन्मार्गगान्' इष्टनगरसुगमपथपस्थितान् तद्विदः' सम्यक्सन्मार्गज्ञान् यत् हसति, सावज्ञमिति क्रियाविशेषणं, सावहेलं अज्ञानिव, यथा मार्गाभिज्ञा मार्गमुपदिशन्त उपहस्यन्ते लोकेन, तथैतेऽपि तेन । एवं प्रस्तुतमुपमान योजयित्वा प्रस्तुतमुपमेयमिदानी योज्यते, कष्टमेतत्-' यत् नृणां' सत्पथेच्छुपुरुषाणां नष्टदृशां-अतिमुग्धतया सत्पथकुपथविभागानभिज्ञानात् , अदृशा- सम्यग्ज्ञानदर्शनविकलानां जात्यन्धः- सिद्धान्तरहस्यलेशानभिज्ञः सर्वथा अगीतार्थः, सोऽपि गीतार्थसंवासादेः कथश्चिन्मोक्षपथकथनप्रवीणः स्यातत्राह-वैदेशिको गर्हिताचारत्वाद् गीतार्थमुनिपुङ्गवसङ्गमात्रवर्जितः एष चाधुनिकदुस्सङ्घप्रवरो निशकं निश्रेयसपथप्रत्यर्थिमार्गकथनदीक्षितोऽयं यथाछन्दशिरोमणिः कश्चिदा
For Private And Personal Use Only