________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८
चार्यो मन्तव्यः। कान्तारे-भवमहाटव्यां प्रदिशति अभीप्सितपुराध्यानं-मुक्तिमार्ग उत्कन्धरो-दर्शिताहङ्कारविकारः, तथा च सोऽगीतार्थः उत्सूत्रभाषको मिथ्यादृष्टिः कथश्चिदपि सत्पथं मोक्षमार्ग न वेत्ति, नाप्यन्येन गीतार्थेन प्रतिपादितोऽपि प्रत्येति इति कष्टं, एतत्कष्टतरं त्विति पूर्ववत् , सोऽपि प्रागभिहितो यथाच्छन्दाचार्यः सुदृशः-सम्यग्ज्ञानदर्शनयुजः सन्मार्गगान् ज्ञानदर्शनचारित्रलक्षणमुक्तिपथप्रवृत्तान् तद्विदो-मुक्तिमार्गविज्ञान् धार्मिकान् सुविहितसाधून यत् हसति सावज्ञमज्ञानिक, यथा-कममी अगीतार्था मूर्खशिरोमणयः सिद्धान्तरहस्य जानन्ति ?, अहमेव सकलश्रुतपारावारपारश्चा, ततो यमहं ब्रवीमि स मुक्तिमार्ग इति । किमित्येवमुपहसतीत्यत आह-तन्महाकष्टमित्युपमानोपमेययोस्तुल्यतया योजना । अत्र च मुग्धजनपुरतो निरङ्कुशं स्वकल्पितं चैत्यवासादिकमुत्सूत्रपथं प्रथयद्विधिविषयपारतन्त्र्यप्ररूपणानिपुणान् , सुगुरुसम्प्रदायानुवर्तिनः सुविहितानसूययोपहसन् सम्प्रति वर्तमानः कुसङ्घाचार्यवर्गोऽनया भङ्गया कविना प्रतिपादित इति वृत्तार्थः ॥ २९ ॥
साम्प्रतं श्रुतपथावज्ञाद्वारमुपसञ्जिहीर्षुः शुद्धजिनमार्गस्य दुष्टोपचितसमुदितकारणकलापेन सम्प्रति दुर्लभत्वं प्रतिपादयन्नाह
सैषा हुण्डावसर्पिण्यनुसमयहूसद्भव्यभावानुभावा ॥ ३० ॥ व्यख्या- 'सैषा हुण्डा॥ एवं अमुना प्रकारेण अनुकूल-प्रतिसमयं दुष्टेषुक्रूरेषु पुष्टेषु सत्सु जैनमार्गो दुर्लभ:-अर्हत्पथो दुष्प्राप्यः, यदा तु क्रूराः पुष्टास्तदा जैनमार्गो दुर्लभो जात इत्यर्थः । एवं कथं ? सैषा हुण्डानाम्नी अवसर्पिणी-कालविशेषः । कथम्भूता- अवसप्पिणी ? अनुसमयं इसद्भव्यभावानुभावा, अनुसमयं-प्रतिसमयं प्रतिक्षणं इसन्-हीयमानः भव्यजनानां शुभभावस्यानुभाव:-प्रभावो यस्यां सा । अयं त्रिंशत् उग्रग्रहश्च ।
जिनसिद्धान्तोक्ताष्टाशीतिग्रहमध्यात् त्रिंशतः पूरणो भमराशिः, कथम्भूतो भस्मराशिः १ ख-ख-नखमितिवर्षस्थितिः " पश्चानुपूर्व्या अंकरचना ज्ञातव्या" । खंशून्यं, तत्पश्चात् पुनः खं-शून्यं, तत् पश्चान्नख-विशतेरंकः एतावत् (२०००) स्थितिः। अन्त्यदशममाश्चयं च असंयतपूजाऽनाचारप्रतिपादकमाश्चर्यं च तत्समा दुषमा च तैरैव-सपिणीभस्मराशिदशमाश्चर्यैः समा तत्समा दुषमा दुःखकारिणी, तस्यै जिनमतहतये-जिनमर्गोच्छेदनिमित्तं यद्येते तुष्टास्तदा जैनमार्गो दुर्लभ इत्यर्थः ॥३०॥
एवं तावदष्टादशवृत्तः प्रबन्धेन लिङ्गिनां श्रुतपथावज्ञा प्रतिपादिता। संप्रति 'गुणद्वेषधी 'रिति द्वारं निराकुर्वस्तेषां गुणद्वेषं दर्शयन्नाह
For Private And Personal Use Only