________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्यगूमार्गपुषः प्रशान्तवपुषः प्रीत्योल्लसश्चक्षुषः ॥ ३१ ॥ व्याख्या-'सम्यग्मार्गपुषः०' ॥ उद्यापा-प्रचण्डक्रोधाः सत्साधून् सुविहितयतीन् न शाम्यन्ति-न सहन्ते । किंविशिष्टान् सत्साधून् ? सम्यमार्गपुष:ज्ञानादित्रयस्य मोक्षपथो स्यविस्तारकान् सम्यग्ज्ञान-सम्यग्दर्शन-सम्यक्चारित्रपथ पोषकान् । पुनः किंविशिष्टान् ? प्रशान्तवपुषः-रागद्वेषादिरहितशरीरयुक्तान् । पुनः किंविशिष्टान् ? प्रीत्योल्लसच्चक्षुष:-प्रसन्नोत्फल्लनयनान् सर्वत्र सदयावलोकिन इत्यर्थः। पुनः किंविशिष्टान् ? श्रामण्यर्द्धिमुपेयुषः-पञ्चमहाव्रतसम्पत्तिं आसेदुष:-पश्चमहाव्रतानिप्राणातिपात-मृषावादा-दत्तादान-मैथुन-परिग्रहाणां त्यागस्तस्य सम्पत्ति उपगतानिइत्यर्थः । पुनः किम्भूतान् ? मयमुषः-निरहङ्कारिणः । पुनः किम्भूतान् ? कन्दपेकक्ष. प्लुष:-मन्मथशुष्कतृणदाहिनः । पुनः किम्भूतान् ? सिद्धान्तावनि तस्थुष:-जिनोक्तसम्यग्मार्गे स्थितान् तत्परानित्यर्थः । पुनः किम्भूतान् ? शमजुषः-शान्तियुक्तान् पुनः किम्भूतान् ? सत्पूज्यतां जग्मुषः-विवेकजनाराध्यत्वं प्रापितान् । एवं गुणविशिष्टानपि सद्यतीन् उद्यपः-प्रबलकोपाः न शाम्यति- न सहन्ते इत्यर्थः ॥ ३१ ॥
देवीयत्युरुदोषिणः क्षतमहादोषानदेवीयति ॥ ३२ ॥ व्याख्या-'देवीयत्यु०' 'अहो' इत्याश्चर्य जनो-लोकः अगुणाग्रण्यं अगुणभण्डारं स्व-आत्मानं कृतार्थीयति-कृतार्थमिवाचरति-आत्मानं विहितसकलकर्त्तव्यमिवाचरति, कथम्भतो जनः १ मिथ्यात्वग्रहिल:-प्रबलमिथ्यात्वगम्भीरः प्रचण्डमिथ्यात्वाभिनिवेशग्रहग्रहीतः । पुनः किं करोति ? उरुदोषिणः-प्रचुरापराधान् देवीयति-देवानिवाचरति, ये प्रबलदोषास्तान् । देवान्-जिनसदृशान् मन्यत इत्यर्थः । पुनः किं करोति ? क्षतमहादोषान् प्रणष्टप्रचुरापराधान् अदेवीयति-अदेवान् इवाचरत्तिः । पुनः किं करोति ? मूर्खमुख्यनिवह-महामूर्खसमूहं सर्वज्ञीयति-सर्वज्ञमिवाचरति । पुनः किं करोति ? तत्वज्ञम् अज्ञीयति-षड्दर्शनवेत्तारं मूर्खमिवाचरति । पुनः किं करोति ? जैनमार्गम् उन्मार्गीयति-कुमार्गमिवाचरति । पुनः किं करोति ? अपथं-अमार्ग सम्यक्-पथीयति-सन्मार्गमिवाचरति । एतावता सर्वमेव विपरीताचरणमाचरतीत्यर्थः ॥ ३२॥ ये केचन दुष्टयतिनो मुक्तमिवात्मानं मन्यन्ते तान् दुषयितुमाह
सत्राकृतचैत्यकूटपतितस्यान्तस्तरां ताम्यत ॥ ३३ ॥ व्याख्या-' सङ्घनाकृ० ' जन्तुहरिणवातस्य कुतो मोक्षः ? जन्तव एव
For Private And Personal Use Only