________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हरिणाः, तेषां समूहस्य कुतो मोक्षः-कुतो निर्वाणम् ? कथम्भृतस्य जन्तु हरिणवातस्य ? सङ्घच्याघ्रवशस्य उत्सूत्र प्रज्ञापकः स्वच्छन्दचारी विषयलोलुपः साधु-साध्वी-श्रावकश्राविकासमवायो भूयानिह सङ्घ उच्यते, स एव व्याघ्रः, यथा व्याघ्रा यत्तस्य हरिणवातस्य मोक्षः च्छुटनं न भवति तथैवेति । पुनः कथम्भूतस्य ? सङ्घत्रा-श्रावकलोकेन कृतचैत्यकूटपतितस्य भक्त्या तदायत्ती कृतानि जिनगृहाणि, एतान्येव कूटाः मृगबंधनयन्त्रविशेषास्तेषु प्रतिवद्धस्य । पुनः किं विशिष्टस्य ? अन्तस्तरां चेतोमर्मणि ताम्यतः खिद्यमानस्य मृगोऽपि बद्धः सन् चेतोमर्मण्यतितरां खिद्यति पुनः किं विशिष्टस्य ? सन्मुद्रादृढपाशवन्धनवतः सन्-तस्य सङ्घस्य मुद्रा चतुर्दश्यादिपर्वतिथयस्ता एव दृढ. पाशा, तैर्बन्धनं, तयुक्तस्य । अत एव स्पन्दितुं-चलितुं अपि न शक्तस्य-न समर्थस्य । पुनः कथम्भूतस्य मुक्त्यै-मोक्षार्थ कल्पितदानशीलतपस:--विहितदेशचारित्रानशनादेरपि । एतत्क्रमस्थायिनः-एतस्य-सङ्घस्य क्रमो-रात्रिस्नानादिका परिपाटी तद्वर्तिनः। एतावद्-बन्धनयुक्तस्य तत्रापि संघसार्दूलवशस्य जन्तु-हरिणवातस्य कुतो मोक्ष ? न कुतोऽपीत्यर्थः ॥ ३३ ॥
इत्थं मिथ्यापथकथनया तथ्ययाऽपीह कश्चित् ॥ ३४ ॥ व्याख्या-'इत्थं मिथ्या० ॥ इह-लोके इदं अनुचितं-अयोग्यं कश्चिन्माज्ञासीत् । इदं जिनवल्लमे-नोक्तं संघपट्टाख्यं अनुचिमिति मा कश्चिन्मस्त कया? इत्थंपूर्वोक्तप्रकारेण मिथ्यापथकथनया-दिगम्बरोक्तमिथ्यापथप्रकथनया। कथम्भूतया ? तथ्ययापि-सत्ययापि। अथानन्तरं कश्चिन् मा कुपत्-मा क्रोधं कार्षीत् । अथ यद्येवं मिथ्यापथकथनेन परेषां क्रोधशङ्का तदासौ न कथनीय एवेत्याह-' यस्मा 'दिति यस्मात् कारणादेतत् किमपि दिग्मानं कृपया-अनुकंपया कल्पितं-सकृत-जल्पितं चअतिशयेनोक्तं च । किं कृत्वा ? नृन्-मानवान् प्रेक्ष्य-अवलोक्य । कथम्भूतान् नृन् ? जैनभ्रान्त्या-'अयं जैनमार्गः' इति मिथ्याज्ञानेन कुपथपतितान्-कुमार्गप्रस्थितान् कस्मै कल्पितं ? तत्प्रमोहापोहाय-तेषां नृणां प्रचण्डमोहनाशाय । यथाऽमी मूढाः कुपथः स्वरूपं विज्ञाय तत्परित्यागेन सत्पथं गृहीत्वा संसारसागरं तरिष्यन्तिीति कृपया जल्पितमित्यर्थः ॥ ३४ ॥
किमपि दिग्मानं जल्पितम् ? इति कथमुक्तं यावता सकलमेव कथं नोक्तमिति-अतः आह
प्रोद्भतेऽनन्तकालात् कलिमलनिलये नाम नेपथ्यतोऽर्हन् ॥ ३५ ॥
For Private And Personal Use Only