________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या-प्रोद्भूत० यः कश्चित् नृषु-मनुष्येषु कुपोधं निरसिसिषु सन् कुदेशनोत्पादितं दूरीकर्तुमनाः सन् दुरध्वे-कुमार्गे दोषसंख्यां विवक्षेत्-'कुमार्गे एतावत् - संख्या को दोषः' इति वक्तुमिच्छेत् स पुमान् अम्भोऽम्भोधेः प्रमित्सेत्-प्रमातुमिच्छेत् । वेति पक्षान्तरं सकलगगनोल्लङ्घनं विधत्सेत्-सकलाकाशस्यातिक्रमणमिच्छेत् । योऽम्भोऽम्भोधेरवगाहते, यश्च समस्तगनस्योल्लघनं करोति सकुमार्गे दोपसंख्यां वदति, अतो दिग्मात्रं जल्पितमित्युक्तं, तस्मात् कुबोधं निरसिसिषुः कारुण्यात्-'माऽमी संसारसागरे बुडन्तु' इति कृपातः कथम्भृते दुरध्वे ? अनन्त कालात् प्रोद्भुते-अनन्तवर्षमासादिहेतुना संजाते, कलिमलनिलये-दुःखमहापातकनिवासे । पुनः कथम्भूते ? नाम नेपथ्यतःनाममात्राचरणतः अर्हन्मार्गभ्रान्ति -ताविकजिनमार्गसादृश्यं दधाने-विभ्राणे । पुनः किम्भूते दुरध्वे ? तत्वतः-परमार्थतः तदभिमरे-अर्हन्मार्गघातके यथा अभिमराः प्रच्छन्नघातका; स्ववेषेण राजदिकं हत्तुमशक्नुवन्तो वेषपरिवर्तनं कृत्वा राजादिकं निनन्ती तथाएतेऽपि गृहस्थवेषेणाईन्मार्गोच्छेदं कर्तुमपारयंतो यति-वेषेणोच्छेदयन्तीत्यर्थः ॥ ३५ ॥
न सावद्याम्नाया न बकुश-कुशीलोचितयति, ॥ ३६ ॥
व्याख्या-तथा 'न सावद्या०' इह-प्रवचने एते यतय-साधवः अद्यापि दुःषमा कालेऽपि सूत्ररतयः स्युः-सिद्धान्ताध्ययनाध्यापन-व्याख्यान-प्रवणपरायणाः भवेयुः। किम्भूता? येन सावद्याम्नायाः न सपापसंप्रदायाः। पुनः किम्भूताः न बकुशकुशीलो. चित यति-क्रियामुक्ताः बकुशं शबलमतिचारेण समलं प्रक्रमाचारित्रं, तथा कुत्सितं चरणं येषां, तेषामुचिता-योग्या[क्रिया]साधु-सामाचारी तया न युक्ता-न सहिताः, कुत्सितयति क्रियारहिता इत्यर्थः । पुन: किंविशिष्टाः ? मदममताजीवनभयैः-न युक्ताः-जात्यादि मदममता-गृहस्थादिपु जीविकानिर्वाहस्तस्माद् भयं येषां ते तादृशा न । पुनः किं विशिष्टाः ? न संक्लेशावेशा-न रौद्राध्यवसायोत्कर्षाः, पुनः किं भूता न कदमि निवेशाः' न कुत्सितमानसा ग्रहवन्तः, पुनः कथं भृता ? न कपटप्रियाः न मायावल्लभाः, एतावता दुःषमाकालप्रभावाद् अन्यत्कर्तुमपारयंत इत्यर्थः ।। ३६ ॥
संविनाः सोपदेशाः श्रुतनिकपविदः क्षेत्र-कालाद्यपेक्षा ॥ ३७॥ व्याख्या- 'संविनाः सो०' अस्मिन्-जिनशासने सत्साधवः-सुविहितमुनयः वन्द्याः । किंविशिष्टाः सत्साधवः ? संविनाः-निर्वाणेच्छवः । पुनः किंविशिष्टाः ?
For Private And Personal Use Only