________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५
शनादि-एकभक्तादि, किं कृत्वा ? प्रत्याख्याय-नियम्य । क ? एकदा-अष्टम्यादि तिथिषु । यदि कश्चिद् गृहस्थः अष्टम्यादितिथिषु एकभक्तादेनियमं गृह्णाति पश्चात् तं-खण्डयति तस्य चेतसि महान् पश्चात्तापो भवतीत्यर्थः। किं विशिष्टस्य गृहिणः१ सर्वारम्भस्य परिग्रहस्य-सकलपापव्यापारतत्परस्य सदा-सर्वदा, ये पुनः विधा-मनोवाककायारूपेण त्रिविधं-कृतकारितानुमतिलक्षणं पापं षट् कृत्वा-षडारान् प्रतिदिन-प्रतिवासरं प्रोच्यापि उक्त्वाऽपि भञ्जन्ति-खण्डयन्ति तेषाम् असाधूनां क तपः १ तपो नास्ति, सत्यवचनं च नास्त्येव । ज्ञानिता-सिद्धान्तपरिच्छेत्तृत्वं च नास्ति । व्रतं दीक्षा च नास्तीत्यर्थः ॥ २३ ॥
देवार्थ-व्ययतो यथारुचिकृते सर्वतुरम्ये मठे ॥ २४ ॥ व्याख्या-'देवार्थ० ' अहो ! इति आश्चर्य सितपटा:-श्वेताम्बराः कष्टं व्रतं चरन्ति-दुष्करं चारित्रं अनुतिष्ठन्ति । किंविशिष्टा ? साधुव्याजविटा:-यतिव्याजेन धूताः । पुनः कथम्भूताः ? यथा रुचिकृते-स्वमनोभिलाषरूपे मठे नित्यस्थाः सर्वदा मनोरमजिनगृहनिवासिनः। किं कुर्वन्तः ? देवार्थ व्ययतः-तद्देवद्रव्यं व्ययं कुर्वन्तः । कथम्भूते मठे ? सर्वतुरम्ये-सकलवसंतादिऋतुमनोहरे । पुनः कथम्भूताः ? शुचिपट्टतूलशयना:-निर्मलपट्टवस्त्रयुत् तुलशयनाः कोमलशय्याशायिन इत्यर्थः। पुनः कथम्भूताः ? सद्गन्दिकाद्यासना:-कोमलगब्दिकाद्यासनभाजः। पुनः कथम्भूताः १ सारम्भाः आरंभसहिताः । पुनः कथम्भूताः ? सपरिग्रहा:-धनधान्यादिभाण्डसंग्रहपरायणाः, सविषयाः-विषयासक्तचेतसः सेाः-सक्रोधाः । सकासाः सम्भोगविलासोत्कण्ठिताः, सदा-सर्वदा ॥ २४ ॥
इत्यायुद्धतसोपहासवचसः स्युः प्रेक्ष्य लोकाः स्थिति ॥ २५ ॥ व्याख्या-' इत्यायुद्धत०' येषां मिथ्योक्त्या-मिथ्यात्ववचनेन सुदृशोऽपि सम्यग्ज्ञाना अपि मनो बिभ्रति-धारयति । कथम्भूतं मन ? सन्देहदोलाचलं इदं समाचीनं इदं वा इति य संदेहः स एव दोला-हिन्डोलकस्तेन चञ्चलं, ननु निश्चितं सर्वथा जिनपथप्रत्यर्थिनः, कोऽर्थः १ अर्हत्पथशत्रुभूताः लोकाः-जनाः स्थितिम्-अना. चाररूपां श्रुत्वा इत्यायुद्धतसोपहातवचसः स्युः, कोऽर्थः १ उक्तप्रकारेण सहास्यवचना भवेयु:-' अहो जैनाः अन्यथावादिनः अन्यथाकारिणः, अस्माकमेव दर्शनं श्रेयः, इत्यादि वचनसन्दर्मेण, अतो हेतोः अभिमुखा अपि जनाः श्रुतपथात्-जिनसिद्धान्त
For Private And Personal Use Only