________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इयद् द्रव्यमेषणीय "मिति । निशाजागरादिच्छलैः-रात्रिजागरणादिव्याजः किं कृत्वा वश्यते ? जैनबिम्बं आदर्घ्य दर्शयित्वा, कोऽर्थः ? जिनप्रतिमा दर्शयित्वा । न केवलं जिनप्रतिमां दर्शयित्वा तन्नाम्ना-जिननामधेयेन स्वेष्टसिद्ध्यै-आत्माभिमतनिष्पत्तये गृहान् कारयित्वा, कथम्भूतान् गृहान् ? रम्यरूपान्-मनोहरान् किंवत् दर्शयित्वा ? मुग्धमीनान् आक्रष्टुं वड़िशपिशितवत् , यथा व्याधो बडिशे-मत्सवेधने पिशितं-मांसं विधाय मुग्धमीनान्-मुग्धान् मत्स्यान् आकर्षयति ? हेयोपायोदेयविचारशून्यतया धर्मश्रद्धालवस्तएव मत्स्यास्तान् ॥ २१ ॥
सर्वत्रास्थगिताश्रवाः स्वविषयव्यासक्तसर्वेन्द्रियाः ॥ २२ ॥ ___ व्याख्या--कष्टमिति खेदेन उद्धतधियः-' नास्त्यस्मत् समो जगति संप्रति कश्चने 'ति दर्पाध्मातबुद्धयः तुष्यन्ति-मोदन्ते, पुष्यन्ति-वर्द्धन्ते च, किं कृत्वा ? सन्मुनिमूर्द्धसु स्थित्वा-मुनिमस्तकेषु स्थितिं विधाय, किं विशिष्टाः १ अन्त्याश्चर्यराजाश्रिताःदशमाश्चर्य नृपानुगताः, यथा नीचा अपि केचन राजादेरवष्टम्भेन महतामपि मूर्द्धानमारुह्य पुष्यति । एवमेतेपि दशमाश्चर्यराजाश्रिता महामुनीन् परिभूय पुष्यन्तीत्यर्थः ।
पुनः किं विशिष्टाः ? सर्वाकृत्य कृतोऽपि-कोऽर्थः १ लोकलोकोत्तरविरुद्धा-ब्रह्मसेवनपुष्पफलाद्युपभोगाद्यसदाचारकारिणोऽपि सर्वमकृत्यं कुर्वन्तीत्यर्थः । सर्वत्रास्थगिताश्रवाः लोकसमक्षम् अनिरुद्धपश्चाश्रवाः । पुनः किम्भूताः ? स्वविषयव्यासक्तसर्वेन्द्रियाः, स्वविषयेषु-स्पर्शादिषु व्यासक्तानि-विशेषणलग्नानि इन्द्रियाणि-त्वगा. दीनि येषां ते । पुनः किम्भूताः ? वल्गाद्गौरवचण्डदण्डतुरगाः, वल्गन्त:-यदृच्छया प्रसरंतः गौरवैः चंडा:-उत्कटाः, दंडा:-अकुशलमनोवाकाया एव तुरगा येषां ते । पुनः किम्भूताः ? पुष्यत् कषायोरगाः सुपुष्टक्रोधसः । एतावता पंचावविरमणेपश्चेन्द्रियनिग्रह-दण्डत्रयविरैति-कषायचतुष्टयजय-लक्षणसप्तदशविधसंयमविहीना अपि ते सत्साधूनतिक्रामन्ति, इति श्लोकार्थः ।। इदानीं दुष्टयतिभ्यो गृहस्था एव श्रेष्ठा इति दर्शयितुमाह
सर्वारम्भ-परिग्रहस्य गृहिणोऽप्येकाशनायेकदा ॥ २३ ॥ व्याख्या-'सर्वारम्भ० ' गृहिणोऽपि हृदि तीव्रानुतापो भवेत् । निष्ठुरपश्चात्तापो जायते । किं विशिष्टस्य गृहिणः ? न रक्षत:-न पालयतः, किम् ? एका.
For Private And Personal Use Only