________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नुष्ठानमपि अशुभशुभाय-अकल्याणसंपत्तये जायते । 'कि 'मित्याक्षेपे वाक्यमेदे वा, 'पुन 'रिति हेहुप्रकारेण अहितहेतुः-संसारबन्धनहेतुः विडम्बनैव-लोकोपहासास्पदमेव न प्रसार्यते न विस्तार्यते ? अपि तु विस्तार्यत एवेत्यर्थः ॥ १९ ॥ अन्यदप्याह
जिन-गृह-जैनबिम्ब-जिनपूजन-जिनयात्रादि विधिकृतं ॥ २० ॥ व्याख्या-'जिनगृह '० इह-प्रवचने एतदपि सर्व स्फुटं-प्रगटं व्यक्तमेव अनभिमतकारि भवति-अनिष्टविधायि भवेत् ॥ कस्मादित्याह-कुमत-कुगुरु-कुग्राह कुबोध-कुदेशनांशतः, अस्यार्थ:-कुत्सितं मतं कुमतं, कुत्सितो गुरुः कुगुरुः, कुग्राह:सिद्धान्तग्राह्यस्वमतिकल्पितासत्पदार्थसमर्थनानुष्ठाण विषयो मानसोऽमिनिवेशः, जिन शास्त्रस्याज्ञानादन्यथा परिच्छेदः कुबोधः, सिद्धान्ताभिहितार्थानां विन्यासेन प्ररूपणा मणिता कुदेशना, तासाम् अंशतः-लेशतः । एतत् किं ? जिनगृहं-अर्हद्भवन, जैनबिंबभागवती प्रतिमा, जिनपूजनं-भगवत्पूजा, जिनयात्रादि-भगवत्कल्याणकाष्टानि कादि, एतत् सर्व विधिकृतमपि-जिनोक्तप्रकारेण निष्पादितमपि दानतपोव्रतादि-दानं तपसी पूर्व व्याख्यातम् , व्रतादि-स्थूलप्राणातिपातविरमणादि, गुरुभक्तिः-आचार्य शुश्रूषा, श्रुतपठनादि-सिद्धान्ताध्ययनं । एतत् सर्वमपि उक्तहेतोः अनिष्ट विधायि भवेत् आदृतमपि-सबहुमानमपि । किमिव ? वरभोजनमिव यथावसरं हृद्यं भोजनं विषलवनिक्षेपत:-गरलकणनिक्षेपात् अनभिमतकारि भवति-अनिष्टविधायि भवति, एतावता कुमतादि संसर्गाजिनपूजनादिकमपि शुभदायि न भवतीत्यर्थः ॥ २० ॥ सकपटयति वर्णयतुमाह
आक्रष्टुं मुग्ध-मीमान् बडिशपिशितवद् बिम्बमादय जैनं ॥ २१ ॥ व्याख्या-'हा' इति कष्टे, अयं जनो-लोकः शठैः-धूर्यतिभिः वश्यतेविप्रलभ्यते । किं विशिष्टः १ श्रद्धालु:-विवेकविकलः धर्मेच्छावान् , क इव ? शाकिन्यादिवशीकृत इव यथा शाकिन्यादिवशीकृतः केनचिद् वञ्चयते ।। कैः १ यात्रामात्रा. धुपायैः, यात्रा-जिनयात्रा, स्नात्रं-जिनस्नानम् , इत्यादयः उपाया:-प्रकारास्तैः, न केवलं यात्राद्युपायैः, नमसितक-निशाजागरादिच्छलैश्च, नमसितकं-उपयाचितकं " भवतामिदानीमीदृश उपद्रवः समुपस्थितस्तस्माद् भवद्भिस्तनिवृत्तये जिनगोत्रशासनसुराणां
For Private And Personal Use Only