Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २५ श्री उपदेश भणन योग्यं श्रोतारं निरूपितुमाह Acharya Shri Kailassagarsuri Gyanmandir कल्याणाभिनिवेशवानिति गुणाग्राहीति मिथ्यापथः ....॥ २ ॥ व्याख्या - कल्याणाभि० श्रोतॄणां चतुर्दशगुणाः, श्रोतृशब्दाः सर्वेऽप्यत्र हेत्वर्थाः । अथ श्लोकान्वयः - भो श्रोतः ! मया ग्रन्थकर्त्रा त्वमुच्यसे - कथ्यसे कथमिति १ कल्याणाभिनिवेशवानिति, कोऽर्थः शुभरूपाग्रहवान् शोभनस्य रूपस्य आग्रहो विद्यते अस्येति स तथा । पुनः कथमिति १ गुणग्राहीति गुणग्रहीतुं शीलमस्येति गुणग्राही । पुनः कथमिति ? मिथ्यापथप्रत्यर्थीति यथा - छन्दः प्ररूपितोत्सूत्रमार्गस्तस्य विरोधी, पुनः कथमिति ? विनीत इति ऋजुस्वभाव इति, अर्थाद् गुर्गादिषु । पुनः कथमिति अशठ इति अधूर्त्त इति । पुनः कथमिति १ औचित्यकारीति - उचितस्य भाव औचित्यं, तत् कर्तुं शीलमस्येति । पुनः कथमिति ? दाक्षिण्यीति दाक्षिन्ययुक्तः । पुन, कथमिति ? दमीति - जितेन्द्रियः पुनः कथमिति ? नीतिभृदिति-नीति विभर्तीति नीतिभृत्सदाचारपरायण इत्यर्थः पुनः कथमिति ? स्थैर्यीति - स्थैर्यगुणयुक्तः स्थिर इत्यर्थः । पुनः कथमिति ? धैर्यौति-धीर इत्यर्थः । पुनः कथमिति ? सद्धर्मार्थीति - सतां धर्मः सदूधर्म तस्यार्थः, सोऽस्यास्तीति शोभनधर्मगवेषकः । पुनः कथमिति १ विवेकवानिति - युक्तायुक्त विचारचतुरः इत्यर्थः । पुनः कथमिति १ सुधीरिति प्राज्ञ इत्यर्थः ॥ २ ॥ इदानीं युग्मश्लोकयो - व्र्याख्यानमारभ्यते— इह किल कलिकालव्यालवक्त्रान्तराल....॥ ३ ॥ प्रोत्सयेद् भश्मराशिप्रहसख दशमाश्वर्य साम्राज्यपुष्य....॥ ४ ॥ व्याख्या - इह० ॥ प्रो० ॥ “ किलेति " प्रसिद्धिः इह जगति विषयिभिः स्रक्चन्दनवनितादिसेविभिः अभितः - समंतात् । सोयं पंथा अप्रार्थि - प्रार्थितः - ख्यापितः । कथम्भूतः पंथा ? जिनोक्तिप्रत्यर्थी - जैनशास्त्रविरोधी, कस्मिन् सति १ प्राणिवर्गजीवसमूहे जैनेन्द्रमार्गे - जिनशासने विरलतां तुच्छतां याति सति कथम्भूते प्राणिवर्गे ? कलिकालव्यालवक्रान्तरालस्थितिजुषि । कलिकाल एव व्यालः- सर्पस्तस्य वक्त्रं तस्यान्तरालं - मध्यं तत्र स्थितिः - स्थानं, तत् जुषते सेवते यः तस्मिन् । पुनः कथम्भूते प्राणिवर्गे ? गततत्वप्रीतिनीतिप्रचारे । गतौ नष्टौ तवप्रीतिनीतिप्रचारौ यस्य तस्मिन् इदानीं प्राणिवर्गे तत्त्वप्रीतिर्नास्ति । नीतेः प्रचारो व्यवहारश्च नास्तीत्यर्थः । 1 ४ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132