________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२५
श्री उपदेश भणन योग्यं श्रोतारं निरूपितुमाह
Acharya Shri Kailassagarsuri Gyanmandir
कल्याणाभिनिवेशवानिति गुणाग्राहीति मिथ्यापथः ....॥ २ ॥
व्याख्या - कल्याणाभि० श्रोतॄणां चतुर्दशगुणाः, श्रोतृशब्दाः सर्वेऽप्यत्र हेत्वर्थाः । अथ श्लोकान्वयः - भो श्रोतः ! मया ग्रन्थकर्त्रा त्वमुच्यसे - कथ्यसे कथमिति १ कल्याणाभिनिवेशवानिति, कोऽर्थः शुभरूपाग्रहवान् शोभनस्य रूपस्य आग्रहो विद्यते अस्येति स तथा । पुनः कथमिति १ गुणग्राहीति गुणग्रहीतुं शीलमस्येति गुणग्राही । पुनः कथमिति ? मिथ्यापथप्रत्यर्थीति यथा - छन्दः प्ररूपितोत्सूत्रमार्गस्तस्य विरोधी, पुनः कथमिति ? विनीत इति ऋजुस्वभाव इति, अर्थाद् गुर्गादिषु । पुनः कथमिति अशठ इति अधूर्त्त इति । पुनः कथमिति १ औचित्यकारीति - उचितस्य भाव औचित्यं, तत् कर्तुं शीलमस्येति । पुनः कथमिति ? दाक्षिण्यीति दाक्षिन्ययुक्तः । पुन, कथमिति ? दमीति - जितेन्द्रियः पुनः कथमिति ? नीतिभृदिति-नीति विभर्तीति नीतिभृत्सदाचारपरायण इत्यर्थः पुनः कथमिति ? स्थैर्यीति - स्थैर्यगुणयुक्तः स्थिर इत्यर्थः । पुनः कथमिति ? धैर्यौति-धीर इत्यर्थः । पुनः कथमिति ? सद्धर्मार्थीति - सतां धर्मः सदूधर्म तस्यार्थः, सोऽस्यास्तीति शोभनधर्मगवेषकः । पुनः कथमिति १ विवेकवानिति - युक्तायुक्त विचारचतुरः इत्यर्थः । पुनः कथमिति १ सुधीरिति प्राज्ञ इत्यर्थः ॥ २ ॥
इदानीं युग्मश्लोकयो - व्र्याख्यानमारभ्यते—
इह किल कलिकालव्यालवक्त्रान्तराल....॥ ३ ॥ प्रोत्सयेद् भश्मराशिप्रहसख दशमाश्वर्य साम्राज्यपुष्य....॥ ४ ॥
व्याख्या - इह० ॥ प्रो० ॥ “ किलेति " प्रसिद्धिः इह जगति विषयिभिः स्रक्चन्दनवनितादिसेविभिः अभितः - समंतात् । सोयं पंथा अप्रार्थि - प्रार्थितः - ख्यापितः । कथम्भूतः पंथा ? जिनोक्तिप्रत्यर्थी - जैनशास्त्रविरोधी, कस्मिन् सति १ प्राणिवर्गजीवसमूहे जैनेन्द्रमार्गे - जिनशासने विरलतां तुच्छतां याति सति कथम्भूते प्राणिवर्गे ? कलिकालव्यालवक्रान्तरालस्थितिजुषि । कलिकाल एव व्यालः- सर्पस्तस्य वक्त्रं तस्यान्तरालं - मध्यं तत्र स्थितिः - स्थानं, तत् जुषते सेवते यः तस्मिन् । पुनः कथम्भूते प्राणिवर्गे ? गततत्वप्रीतिनीतिप्रचारे । गतौ नष्टौ तवप्रीतिनीतिप्रचारौ यस्य तस्मिन् इदानीं प्राणिवर्गे तत्त्वप्रीतिर्नास्ति । नीतेः प्रचारो व्यवहारश्च नास्तीत्यर्थः ।
1
४
For Private And Personal Use Only