________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुनः कथम्भूते ? प्रसरदनवबोधे-प्रादुर्भवत् सम्यसिद्धान्तापरिज्ञाने, कोऽर्थः ? सिद्धांतार्थसम्यग्ज्ञानरहिते । पुनः कथम्भृते ? प्रस्फुरत् कापथोथस्थगितसुगतिसर्गे उन्मीलन्त:-प्रकटी भवंतः ये कुमार्गा:-कुत्सितमार्गाः ते स्थगित:-तिरस्कृतो रुद्धः-अपवर्गलक्षणायाः सुगतेः सर्गो-निष्पत्तिर्यस्य तस्मिन् । कथम्भूतैः साधुवेषैः विषयिमिः १ संक्लिष्टद्विष्टमूढप्रखलजडजनाम्नायरक्तैः । कोऽर्थः ? समानधर्मजनोपतापकारि-मत्सरि-हेयोपादेय विमर्शशून्यप्रकर्षपिशुनः दुर्बुद्धिचतुर्विध संघः, तस्याम्नाय:-शिष्यप्रशिष्यादिसंतानः, तत्र रक्तः-प्रीतिमंतः, तैः । पुनः कथम्भूतैः ? साधुवेषैः-सन्मुनिचिह्नधारिभिः कथम्भूते जैनेन्द्रमार्गे ? 'प्रोत्सर्प 'दित्यादि प्रोज्जृम्भमाणो यो भस्मराशिनामा क्रूरग्रहः, तस्य सखा-मित्रम् , असंयतपूजाख्यं रिपुविजयपुरःसरं आश्वयं वर्द्धमानं अतचे तत्वप्रतिपद्यमानरूपं यद् दशमाश्चर्य तस्य साम्राज्येन-प्राचुर्येण पुष्यन्-प्रादुर्भवन् मिथ्यात्वं, तदेव ध्यांत-तमिस्रं तेन व्याप्ते । अन्योऽपि मार्गों यद्यन्धकारावृतो भवति तदोच्छन्नता यात्येव ॥ ३-४ ।।
इदानी योग्यस्य श्रोतुः पुरतो धुर्तकल्पिते पथि दशभिरैस्तत्र निरूपित धर्म प्रतिपादयन् तस्य धर्मस्य कर्मनिर्मूलने सामर्थ्यमसंभावयन्नाह
यत्रौदेशिकभोजनं जिनगृहे वासो वसत्यक्षमा...॥ ५ ॥ व्याख्या-" यत्रो० " यस्मिन्मार्गे औदेशिकभोजन, कोऽर्थः १ यतीन् मनसि कृत्वा निष्पादितं, जिनगृहे वास:-अर्हद्भवने सर्वदा निवासः, वसत्यक्षमा-गृहस्थगृहे वासं प्रति मात्सर्यम्, अर्थ गृहस्थचैत्यसदनेषु स्वीकार:-द्रव्यश्रावकजिनगृहेषु अङ्गीकारः, अप्रेक्षिताद्यासन-स्वचक्षुषा अदृष्ट-मासनम् , सावद्याचरितादर:-सपापैयंदाचरितं, तस्यादरः, श्रुतपथावज्ञा-सिद्धान्तमार्गस्याऽनादरः, गुणिद्वेषधीः-यतिषु द्वेषबुद्धिः, इति दशद्वाराणि । एतैर्दशद्वारैः प्ररूपितो धर्मः । अत्र-असाधुकल्पिते पथि कर्महरश्चेद् भवेत्-कर्मक्षयकारी भवेत् तदा अब्धौ-समुद्रे मेरुस्तरेत् । यदा मेरूः समुद्रे तरति तदा एतस्माद् धर्मात् मोक्षो भवतीत्यर्थः ॥ ५ ॥
साम्प्रतमेतेषामेव दशद्वाराणां यथाक्रमं प्रत्याख्याने चिकीर्षुः प्रथमं तावजीवोपमर्ददोषदृष्टया औदेशिकभोजनद्वारं निषे माह
षट्कायान् उपमर्थ निर्दयमृषीनाधाय यत् साधितं....॥६॥
For Private And Personal Use Only