________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
व्याख्या-षटकायानुपम । नामेति संभावनायाम् , इह-प्रवचने सघृणोदयालुः कः तद् भोजनं मोक्तुमिच्छति ? अपितु न कोऽपि-इत्यर्थः। किं कुर्वन् ? सवादिनिमित्तमेतन्निष्पन्नमिति जानन् । किं तद्भोजनं यत् षट्कायान्-पविधजीवनिकायान् उपमये-हत्वा निदेयं यथा स्यात्, एवम् ऋषीन्-यतीन् आदाय-मनसि कृत्वा यत् साधितं निष्पादितं यद् भोजनम् असकद्-वारं वारं शास्त्रेषु प्रतिषिध्यते-निवार्यते निशीथादिग्रन्थेषु यस्य निषेधो वर्तते, तद् भोजनं निस्त्रिंशताधायि निष्करुणताकारकम् । पुनः यद् भोजनं पण्डिताः गोमांसाधुपमम् आहुः-गोमांसादिसदृशं कथयति मूलादि । यद् भोजनं भुवा यतिरधोयाति-नरकं गच्छति तद् भोजनं प्राज्ञः कोऽपि न भोक्तुमिच्छति-इत्यर्थः ॥६॥ प्रथमं तावत् भोजनद्वारं निषेध्य जिनगृहनिवासं निषेधयितुमाह- .
गायद् गन्धर्वनृत्यत् पणरमणिरणद् वेणुगुञ्जन्मृदङ्ग ॥ ७ ॥ व्याख्या-"गायद गन्धर्व०" खलु इति निश्चये अर्हन्तमवज्ञा:-जिनशास्त्रनिपुणाः सन्तः जिनगृहे न वसन्ति-न सततमवतिष्ठन्ते । कुतः १ विकारहेत्वात् । किविशिष्टाः सन्ता ? सन्ता, काम्यः ? देवद्रव्योपभोगनुवमठपतिताऽऽशातनाभ्यः । देवद्रव्यस्य जिननैवेद्यादेः उपभोगः, सततं शयनं, भोजनादिकरणे उपभोगः, ध्रुवंनिश्चयं मठपतिता-मठाधिपत्यं, तथा भगवदशातना:-जिनानां चतुरशीतिराशातनाः, एतेभ्यः विभ्यन्तः । कथम्भूते जिनगृहे ? ' गायद् गन्धर्वे 'त्यादि, गायन्तः गन्धर्वा: प्रधानगायनाः यत्र नृत्यन्त्यः पणरमण्यो-वेश्या यत्र, रणन्तो-मधुरं ध्वनन्तो वेणवो-वंशाः यत्र, गुञ्जन्तो गम्भीरं स्वनन्तो मृदङ्गा प्रेङ्क्षन्त्योलम्बमानाः पुष्पसजा-पुष्पमाला यत्र, उद्यत्-सवेतः प्रसरत् आमोदद्वारेण मृगमदा-कस्तूरिका यत्र, लसन्त:पट्टांशुकमयत्वाद्दीप्यमाना उल्लोचानि-वितानानि यत्र, महाधनवसनभूषणाङ्गरागादिभूषितशरीरत्वात् शोभमाना जनौघा:-श्रावकसमूहा यत्र, तस्मिन् ॥ ७॥ वसत्यक्षमाद्वारं निरसितुं श्लोकद्वयेनाह
सामाजिनैर्गणधरैश्च निषेवितोक्तां ॥ ८॥
चित्रोत्सर्गापवादे यदिह शिवपुरीदूतभूते निशीथे ॥९॥ व्याख्या--साक्षा० सकर्णः-सश्रवणः कः पुमान् परगृहे-गृहस्थगृहे वसति
For Private And Personal Use Only