________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૨૮
1
निवासं विद्वेष्टि । अकर्णः पुमान् कर्णौ विना सिद्धान्तोक्तामपि परगृहवसतिम् - अनाकर्णयन् निषेधेदपि । यः पुनः सकर्णः - श्रवणः स परगृहवसतिं यतीनामनुमोदयत्येव, न तु द्वेष्टि । किं कुर्वन् ? मुनिपुङ्गवानां-यतिश्रेष्ठानां अनगारपदं जानन्- न विद्यते अगारो यस्येति जानन् । अथवा किं विशिष्टां वसतिं ? ' शय्यातरोक्ति 'मिति, शय्या वसतिराख्याता यतिभ्यो दानतया, तरति भवाम्भोधिं यया अनगारपदं शास्त्रे हि यतिवाच कत्वेन प्रतिपदं श्रूयते । ननु स्वगृह एव किमिति यतयो न वसति । तत्राहमुनिपुङ्गवानां निःसंगता - स्वजनादि राहित्यं अग्रिमपदं - मुख्यस्थानम् । किंविशिष्टा निःसंगता ? साक्षात् - प्रत्यक्षं जिनैः - तीर्थकृद्भिः निषेविता - उपभुक्ता, स्वमुखेन उक्ता च कथिता, न केवलं जिनैर्गणधरैश्च - गौतमप्रभृतिभिः । यतीनां स्वगृहं नास्त्येव, अतः परगृहवसतिरेव श्रेयसीत्यर्थः ॥ ८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या
'चित्रोत्सर्गा० ' सर्वत्र - सर्वस्मिन् वसति अधिकारे आगारधाग्निगृहस्थ गृह एव यतीनां निवासो न्ययामि, कोऽर्थः १ व्यवस्थापितः, न तु क्वापि कस्मिनपि ग्रन्थे, चैत्ये- जिनगृहे निवासो निरूपितः । किं कृत्वा ? प्रागुक्त्वा प्रथमं निशीथे भूरिभेदा:- बहुभेदाः वसतीः उक्त्वा । किं विशिष्टे निशीथे ? चित्रोत्सर्गापवादे । चित्रौ - नानाविधौ बहुप्रकारौ उत्सर्गापवादौ - सामान्यविधि - विशेषविधी यस्मिन् । पुनः कथम्भूते निशीथे । शिवपुरीदूत भूते - मुक्त पुरी सन्देशहरसदृशे । पुनः किं कृत्वा ? पश्चात् - तदनन्तरं कारणेऽपोह्य - अपवादविषयीकृत्य । किं विशिष्टे अगारधाम्नि १ स्त्रीसंसक्त्यादि युक्तेऽपि स्त्रीपण्डकादिसहितेऽपि । ननु विकारसामग्रीसहिते गृहस्थगृहे कथं यतीनां निवासः १ इत्याह- अभिहितयतनाकारिणामिति - निशीथोक्तयतना सावधानानां संयतानां किं विकारहेतुभिरित्यर्थः ॥ ९ ॥
ननु एवं यतना सावधानानां चैत्यवासेऽपि को दोषः १ इत्यतः आह
प्रव्रज्या परिपंथिनं ननु धनस्वीकार माहुर्जिनाः ॥ १० ॥
66
19
व्याख्या- प्रव्रज्या० ननु निश्चितं तीर्थंकराः धनस्वीकारं - द्रव्यस्याङ्गीकारं प्रव्रज्यापरिपंथिनमाहुः ।। कोऽर्थः । दीक्षाशत्रुभूतं कथयन्ति स्म । क धनसंग्रहः १ क्व दीक्षेतिद्वारम् । तु पुनः सर्वारंभ - परिग्रहं - सकलपापसहितानां गृहिणं । परिग्रहं अतिमहासावद्यं अतिशय महासपापं आचक्षते - कथयति । तेन गृहस्थपरिग्रह, सर्वथा यतीनां नोचित इति द्वारम् । चैत्यस्वीकरणे तु माठपत्यमेव स्यात् । यदा यतीनां जिनगृहस्य
For Private And Personal Use Only