________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९
स्वीकारास्तदा मठाधिपत्यमेव भवेत् । कथम्भूतं माठपत्यम् गर्हिततम-प्रकर्षण निन्दितं । यद्वा इति हेतोसुक्यर्थिनां पुंसाम् इति ममता युक्ता न-द्रव्यादिषु ममत्वं युक्तं नेत्यर्थः । कथम्भूता ममता ? व्रतवैरिणी चारित्रशत्रुभूता ॥ १० ॥
तत्र दशद्वाराणां मध्ये षड् द्वारा निषेध्य अवशिष्टद्वारचतुष्टयं निषेधयितुमाह श्लोक चतुष्टयेन
भवति नियतमत्रासंयमः स्याद् विभूषा ॥ ११ ॥ गृही नियतगच्छभाक् जिनगृहेऽधिकारो यतेः ॥ १२ ॥ निर्वाहार्थिनमुज्झितं गुणलवैरज्ञातशीलान्वयं ॥ १३ ॥
दुष्प्रापा गुरुकर्मसंचयवतां सद्धर्मबुद्धिर्नृणां ॥ १४ ॥ व्याख्या-अत्र श्लोके सप्तमं द्वारं गन्दिकायासनं निषिध्यते । अत्र गन्दिकाद्यासने विभूषा स्यात्-शोभा भवेत् । न केवलं शोभा, असंयमश्च भवति । को ? जीवरक्षाऽमावश्च भवति नियतं-सर्वदा गन्दिकाद्यासने कथं शोभा भवेत् ? तत्राह"नृपतिककुदं" एतदिति, यतः एतदासनं नृपतिककुदं-राज्यचिह्नमिति । तर्हि शोमाऽप्यभीष्टवेत्याह-लोकहासश्चेति गन्दिकाद्यासने भिक्षोः केवलं शोभैव न भवति किन्तु लोकोपहासश्च भवति-'अहो ! भिक्षोपजीविनो मुण्डिता अपि एवंविधेष्वासनेषूपविशति' । इह संगः लोकविदितः गब्दिकादौ परिग्रहः, उच्चैः-अतिशयेन सातशीलत्वं-सुखलोलुपता, इति हेतो मुमुक्षोः मोक्षाभिलाषिणः पुरुषस्य गन्दिकाद्यासनं संगतं न-युक्तं नेत्यर्थः । इति सप्तमं द्वारम् ॥ ११ ॥
सावद्याचरितादराख्यमष्टमं द्वारं निरूपयमाह
व्याख्या- गृही नियतगच्छ० ' गतानुगतिकैः-गडरिकाप्रवाहरूपैः अनगारिणां-यतीनाम् असंस्तुतम्-अनुचितम् , अद:-एतत् कथं प्रस्तुतं-प्रारब्धम् । एतत् किं ? गृही-श्रावको नियतगच्छभाग् भवति, कोऽर्थः ? आत्मसदृशो गच्छो येषाम् तेषामेव समुदाय भजनेन गुणदोषादिकं विचारयति अन्य यतेः मुने जिनगृहे अधिकारः एतदपि विरुद्ध-मेव, अपरं च आरंभिभिः-गृहिभिः साधुषु-यतिषु यथा तथा, कोऽर्थः १ येनैव प्रकारेण तेनैव अशुद्धमपि अशनादि-भक्तपानादिप्रदेयं-वितरणीयम् । एतदपि विरुद्धमेव । अपरं च व्रतादिविधिवारणं-सर्वविरत्यादिविधेरिण-निषेधः। एतदपि विरुद्धम् । सुविहितान्तिके-सन्तिके-सन्मुनिसमिपे कथं प्रारब्धमित्यर्थः ।। अष्टमं द्वारम् ।। १२ ॥
For Private And Personal Use Only