________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमं द्वारं निशेधयितुमाह - व्याख्या-निर्वा० जना:-लोकाः यत् ईदृशं यति देवेभ्योऽपि-जिनेभ्योऽपि अधिकं यथा स्यात् तथा अर्चयन्ति-पूजयन्ति तत् महत:-प्रबलस्य मोहस्य-अज्ञानस्य जृम्भितं-लीलायितं । कीदृशं यति ? निर्वाहार्थिनं, कथं ? निर्वाहो-जीविका भवतीत्ययमेवार्थः प्रयोजनं यस्य तम् । पुनः कीदृशं ? गुणलवैः-गुणलेशैरपि उज्झितं-त्यक्तम् । पुनः कथम्भृतं ? अज्ञातशीलान्वयं अविदिताचारकुलं पुनः कथम्भूतं गुरुणा-आचार्येण स्वार्थाय-प्रयोजनाय मुण्डीकृतं-दीक्षा नीतम् । कथम्भूतेन गुरुणा ? तादृग्वंशजतद्गुणेन-तादृशिष्यवंशजातेन तद्गुणेन-शिष्यसदृशगुणेन । किंविशिष्टा जनाः १ विख्यात. गुणान्वया अपि-प्रसिद्धगुणवंशजाता अपि । अकुलीना:-कुलीनं पूजयति तदा पूजयन्तु, (किन्तु) कुलीना अपि अकुलीनं पूजयन्ति, इतिमोह प्रावल्यम् । पुनः किंविनिष्टाः ? लग्नोग्रगच्छग्रहा:-चेतसि निविष्टो यः उग्रगच्छ प्रतिबन्धः तद् युक्ता इत्यर्थः । द्वारम् ॥९-१३॥
'गुणद्वेषधी 'इतिद्वारं निषेधयितुमाह
व्याख्या-दुष्प्राप्या०॥ गुरुकर्मसञ्चयवता-गरिष्टसंसारवन्धहेतुकर्मयुक्तानां प्राणिनां सद्धर्मबुद्धिर्दुष्प्राप्या, कोऽर्थः ? दुःखेन प्राप्यते तस्यां सद्धर्मबुद्धौ जातायामपि उत्पन्नायामपि शुभगुरुदुर्लभः यो गुरुरिष्टतरं किश्चिदुपदिशति । सोऽपि शुभगुरुः पुण्येन यदि प्राप्यते तथापि अमी जनाः स्वहितं कर्तुं नालं-आत्मनो हितं कर्तुं न समर्थः । किं विशिष्टा जनाः १ गच्छस्थितिव्याहता:-'युष्मत्कुलाहतोऽयं गच्छस्तत एनं गच्छं त्यत्वा भवद्भिर्नान्यपार्वे श्रवण-सम्यक्त्वव्रतप्रतिपत्त्यादिकं विधेयम्' इति गृहस्थस्य यतिविहिता व्यवस्था, तया गच्छस्थित्या व्याहता:-वशीकृता इत्यर्थः, अतो हेतोः किं ब्रूम:-किं भणामः १ इह-संसारे, किम् आश्रयेमहि-निषेवेमहि । किम् आराध्येमहिकस्याराधनां कुर्मः १ किं वा कुर्महे-विदध्मः, इति दशमं द्वारम् ॥ १४ ॥ एतेन प्रव्रज्याऽपि कुलीनस्यैव योग्येति प्रतिपादयन्नाह
क्षुत्क्षामः किल कोऽपि रकशिशुकः प्रव्रज्य चैत्ये कचित् ॥ १५ ॥ व्याख्या-क्षुत्क्षामः 'किलेति संभावने कोऽपि रङ्कशिशुक:-अज्ञातनामा क्षुत्क्षामसन्-बुभुक्षादुर्बलः सन् कचिदनिर्दिष्टनाम्नि चैत्ये-जिनगृहे प्रव्रज्य-दीक्षा गृहीत्वा कञ्चनं श्रावकं पक्षं कृत्वा तदाचार्य प्राप्तः-सूरिपदं गतः सन् , कथम्भूतः ?
For Private And Personal Use Only