________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कविचक्रवर्ति श्रीजिनवल्लभमरिविरचितः पण्डितलक्ष्मिसेनविहितया स्फुटार्था
भिधया लघुवृत्त्यासनाथः ।
सङ्घपट्टकः इन्दीवरप्रभमनिदितकांतिशातिधामार्चित सुरवरैः किल वासवाद्यैः ॥ श्रीमजिनेशचरणं तरणाय सद्यः । सर्वेजना नमत किं कुरुतान्य चिन्ताम् ॥ १ ॥ गम्भीरार्थगतेर्लसत्पदरतेः श्रीसंघपट्टाभिध,प्रन्थस्यास्य यथामति प्रकुरुते टीकां स्फुटार्थभिधाम् । लक्ष्मीसेनसुधीः सुधीरनिवह प्रीत्यै जिनेशप्रभोः
पादाब्जा-चैनलब्ध सन्मति रति श्रीमान हमीरात्मजः ॥ २ ॥ तत्र तावदायश्लोकार्थविवेचनमारभ्यते
वन्हिज्वालावलीढं कुपथमथनधीर्मातुरस्तोकलोक ॥ १ ॥ व्याख्या-'वह्नि'रिति-तं देवं-पार्श्वनाथं वयं स्तुम:-प्रणमामः । तं कं ? यो देवः इति जगादेव-उक्तवानिव इति, किं १ प्राज्ञैः-पण्डितैः सद्यः-तत्क्षणादेव कुमार्गस्खलन कार्य-कर्त्तव्यं, सिद्धान्तविरुद्धमतनिगकरणं कर्तव्य-मित्यर्थः । किं कृत्वा ? स्वस्य आत्मनः विधुरमपि प्रपद्य । अपि सम्भावने कोऽर्थः ? कुमार्गस्खलनाद् यदि आत्मनो विधुरमपि किश्चिद् भवति तथापि इति । किं कुर्वन् उक्तवान् ? कमठमुनितपः उच्चैः-अतिशयेन दुष्टं प्रकटयन्-प्रकटीं कुर्वन् । कोऽर्थः १ कमठनामतापसस्तावदेकः कश्चितपस्वी पश्चाग्नि नाम तपः कुर्वन् पार्श्वनाथेनावलोकित, तस्य तत् तपो भगवता दुष्टं कतमित्यर्थः ॥ किं कुत्वा ? अखिललोकस्यग्रे ज्वलत्काष्ठमध्यात्सपं सन्दर्य, न केवलं अखिललोकस्याने मातुर्वामदेव्याचाग्रे वामादेवी भगवन्माता, तस्या अपि पुरतः इत्यर्थः किं विशिष्टं नागं ? " अग्निज्वालावलीढं" अग्निशिखाकवलितं-अर्द्धदग्ध मित्यर्थः कथम्भूतो यः परमेश्वरः ? कुमार्गछेदनबुद्धियुक्तः । पुनः कथम्भूतः १ कारुण्यामृतान्धिः-कृपापीयूषसागरः ॥१॥
For Private And Personal Use Only