Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ श्रीस्तम्भनपार्श्वनाथाय नमः ॥ श्रीखरतरगच्छालंकार-नवाजीवृत्तिकार-श्रीजिनअभयदेवसूरिशिष्य-कवीन्द्रचूडामणी श्रीजिनवल्लभसूरिविरचितः। जिन भद्रसूरिशाखान्तर्गत-साधुकीर्तिगणिनिर्मितावचूरीसमलंकृतः श्रीसंघपट्टकः श्रीमत्पार्श्वजिनं नत्वा, सर्वसम्पत्तिदायकम् । सपट्टकशास्त्रस्या-ऽक्षरार्थ वितनोम्यहम् ॥ १ ॥ इह हि पुरा दशशताशीतिवर्षे श्रीमदणहिल्लपत्तने दुर्लभराजसभायां चैत्यवासिनो विनिर्जित्य प्राप्तखरतरविरुदः श्रीजिनेश्वरसूरिः, तत्पट्टे जिनचन्द्रसूरिः, तद्विनेयः श्रीस्तम्भनकपार्श्वप्राकट्यकृद् नवाङ्गीवृत्तिविधाता च श्रीअभयदेवमूरिः, तच्छिष्यः श्रीजिनवल्लभमरिः शिथिलाचारनिरासाय परोपकारकरणाय च श्रीसङ्घस्य पदकरूपं श्रीसंघराज्यपदृकशास्त्रं चकार, तस्याद्यकाव्यम् वहिज्वालावलीढं कुपथमथनधीर्मातुरस्तोकलोक,स्याने संदर्य नागं कमठमुनितपः स्पष्टयन् दुष्टमुच्चैः । यः कारुण्यामृताब्धिर्विधुरमपि किल स्वस्य सद्यःप्रपद्य, प्राज्ञैः कार्य कुमार्गस्स्वलनमिति जगादेव देवं स्तुमस्तम् ॥ १ ॥ व्याख्या-"वह्नि" तं देवं स्तुमः । तमिति के ? यो भगवान् मातुरग्रे अस्तोकलोकस्य-समस्तलोकस्य अग्रे नाग-सर्प संदर्य-दर्शयित्वा प्राज्ञैः-पण्डितैः 'कुमार्गस्खलनं कार्यम्' इति जगादेव-इति कथयामासेव । कथम्भूतं नागं ? वहिवा. लावलीढम्-अग्निज्वालाव्याप्तम् । कथम्भूतो भगवान् ? कुपथस्य-कुमार्गस्य मथने धी:बुद्धिर्यस्य । पुनर्भगवान् किं कुर्वन् ? उच्चैः-अत्यर्थ कमठमुनितपः दुष्टं स्पष्टयन्-प्रकटीकुर्वन् । कथम्भूतो भगवान् ? कारुण्यमृताब्धिः-कारुण्यस्यामृतस्य अब्धिः-समुद्रः। किं कृत्वा कुमार्गस्खलनं काय ? तत्राह-'किल' इति सत्ये स्वस्य-आत्मनः सद्य-शीघ्र विधुरमपि-कष्टमपि प्रपद्य-अङ्गीकृत्य । इति प्रथमकाव्यार्थः ॥१॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132