________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीस्तम्भनपार्श्वनाथाय नमः ॥ श्रीखरतरगच्छालंकार-नवाजीवृत्तिकार-श्रीजिनअभयदेवसूरिशिष्य-कवीन्द्रचूडामणी
श्रीजिनवल्लभसूरिविरचितः। जिन भद्रसूरिशाखान्तर्गत-साधुकीर्तिगणिनिर्मितावचूरीसमलंकृतः
श्रीसंघपट्टकः
श्रीमत्पार्श्वजिनं नत्वा, सर्वसम्पत्तिदायकम् ।
सपट्टकशास्त्रस्या-ऽक्षरार्थ वितनोम्यहम् ॥ १ ॥ इह हि पुरा दशशताशीतिवर्षे श्रीमदणहिल्लपत्तने दुर्लभराजसभायां चैत्यवासिनो विनिर्जित्य प्राप्तखरतरविरुदः श्रीजिनेश्वरसूरिः, तत्पट्टे जिनचन्द्रसूरिः, तद्विनेयः श्रीस्तम्भनकपार्श्वप्राकट्यकृद् नवाङ्गीवृत्तिविधाता च श्रीअभयदेवमूरिः, तच्छिष्यः श्रीजिनवल्लभमरिः शिथिलाचारनिरासाय परोपकारकरणाय च श्रीसङ्घस्य पदकरूपं श्रीसंघराज्यपदृकशास्त्रं चकार, तस्याद्यकाव्यम्
वहिज्वालावलीढं कुपथमथनधीर्मातुरस्तोकलोक,स्याने संदर्य नागं कमठमुनितपः स्पष्टयन् दुष्टमुच्चैः । यः कारुण्यामृताब्धिर्विधुरमपि किल स्वस्य सद्यःप्रपद्य,
प्राज्ञैः कार्य कुमार्गस्स्वलनमिति जगादेव देवं स्तुमस्तम् ॥ १ ॥ व्याख्या-"वह्नि" तं देवं स्तुमः । तमिति के ? यो भगवान् मातुरग्रे अस्तोकलोकस्य-समस्तलोकस्य अग्रे नाग-सर्प संदर्य-दर्शयित्वा प्राज्ञैः-पण्डितैः 'कुमार्गस्खलनं कार्यम्' इति जगादेव-इति कथयामासेव । कथम्भूतं नागं ? वहिवा. लावलीढम्-अग्निज्वालाव्याप्तम् । कथम्भूतो भगवान् ? कुपथस्य-कुमार्गस्य मथने धी:बुद्धिर्यस्य । पुनर्भगवान् किं कुर्वन् ? उच्चैः-अत्यर्थ कमठमुनितपः दुष्टं स्पष्टयन्-प्रकटीकुर्वन् । कथम्भूतो भगवान् ? कारुण्यमृताब्धिः-कारुण्यस्यामृतस्य अब्धिः-समुद्रः। किं कृत्वा कुमार्गस्खलनं काय ? तत्राह-'किल' इति सत्ये स्वस्य-आत्मनः सद्य-शीघ्र विधुरमपि-कष्टमपि प्रपद्य-अङ्गीकृत्य । इति प्रथमकाव्यार्थः ॥१॥
For Private And Personal Use Only